________________
कृतखभावत्वात् (चंदो इव सोमलेसे) चन्द्र इव सौम्यलेश्या, शान्तत्वात् (सूरो इव दित्ततेए) सूर्य इव लादीसतेजाः, द्रव्यतो देहकान्त्या भावतो ज्ञानेन (जचकणगं व जायस्वे) जात्यकनकमिव जातं रूपं-खरूपं
यस्य स तथा, यथा किल कनकं मलज्वलनेन दीसं भवति तथा भगवतोऽपि खरूपं कर्ममलविगमेन अतिदीप्तं अस्तीति भावः ( वसुंधरा इव सबफासविसहे) वसुन्धरा इव-पृथ्वीव सर्वस्पर्शसहः, यथा हि पृथ्वी शीतोष्णादि सर्व समतया सहते,तथा भगवानपि (सुहुअहुआसणे इव तेयसा जलंते) सुष्टु हुतो-घृतादिभिः सिक्त एवंविधो यो हुताशन:-अग्निस्तद्वत्तेजसा ज्वलन् (नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवइ) नास्त्ययं पक्षो यत्तस्य भगवतः कुत्रापि प्रतिबन्धो भवति, तस्य भगवतः कुत्रापि प्रतिबन्धो नास्तीति भावः (से य पडिबंधे चउबिहे पण्णत्ते) स च प्रतिबन्धः चतुर्विधः प्रज्ञप्तः (तंजहा) तद्यथा-(दघओ खित्तओ कालओ भावओ) द्रव्यतः क्षेत्रतः कालतः भावतश्च (दवओसचित्ताचित्तमीसिएसु दवेसु) द्रव्यतस्तु प्रतिवन्धः सचित्तचित्तमिश्रितेषु द्रव्येषु, सचित्तं वनितादि अचित्तं आभरणादि मिश्रं लिङ्कारवनितादि तेषु, तथा (खित्तओ गामे वा) क्षेत्रतः कापि ग्रामे वा (नयरे वा) नगरे वा (अरपणे वा) अरण्ये वा (खित्ते वा) ला क्षेत्रं-धान्यनिष्पत्तिस्थानं तत्र वा (खले वा) खलं-धान्यतुषपृथक्करणस्थानं तत्र वा (घरे वा ) गृहे वा (अंगणे) अङ्गणं-गृहाग्रभागस्तत्र वा (नहे वा) नभ:-आकाशं तत्र वा, तथा ( कालओ समए वा) कालतः | समय:-सवेसूक्ष्मकाल: उत्पलपत्रशतवेधजीणेपदृशाटिकापाटनादिदृष्टान्तसाध्यस्तन वा (आवलियाए वा)।
Jain Education Interational
For Private & Personel Use Only
HODainelibrary.org