________________
SONGS
च, एकदा च खपादौ प्रक्षालयन्त्यास्तस्याः श्रेष्ठिना खयं गृहीतां भूलुठद्वेणी निरीक्ष्य मूलानाम्नी श्रेष्ठिपत्नी
चन्दनादागृहस्वामिनी तु इयमेव युवतिर्भाविनी अहं निर्माल्यप्राया इति विषण्णचित्ता तां शिरोमुण्डननिगडक्षेपणपूर्व नं कटशलायन्त्रमध्ये निरुद्धय कापि गता, श्रेष्ठयपि कथमपि चतुर्थे दिने तच्छुद्धिं प्राप्य यन्त्रं उद्घाव्य तां तदवस्था कोपसर्गः देहल्यां संस्थाप्य सूर्पकोणे कुल्माषान् अर्पयित्वा निगडभङ्गार्थ लोहकाराकारणाय यावद्गतस्तावद्यदि कोऽपि |भिक्षुरागच्छेत्तर्हि दत्त्वा कुल्माषान् भुने इति चिन्तयन्त्यां तस्यां भगवान् समागतः, साऽपि प्रमुदिता गृहाणेदं प्रभो इति जगौ, ततः खामी अभिग्रहे रोदनं न्यूनं निरीक्ष्य निवृत्तः, ततो वसुमती अहो अस्मिन्नवसरे भगवानीगत्य किश्चिदपि अगृहीत्वा निवृत्त इति दुःखतो रुरोद, ततः पूर्णाभिग्रहः खामी कुल्माषान अग्रहीत्, अत्र कविः-चंदना सा कथं नाम, बालेति प्रोच्यते बुधैः ? । मोक्षमादत्त कुल्माषैर्महावीरं प्रतार्य या ॥१॥ ततः पञ्च दिव्यानि जातानि शक्रः समागतः देवा नन्तुः केशाः शिरसि सञ्जाताः निगडानि च नुपूराणि, ततो मातृखसुमंगावत्या मिलनं, तत्र च सम्बन्धितया वसुधाराधनं आददानं शतानीकं निवार्य चन्दनाज्ञया । धनावहाय धनं दत्त्वा वीरस्य प्रथमा साध्वी इयं भविष्यतीत्यभिधाय शक्रस्तिरोदधे । ततः क्रमेण जृम्भिकाग्रामे शको नाट्यविधि दर्शयित्वा इयद्भिर्दिनानोत्पत्ति इत्यकथयत्, ततो मेण्ढिकग्रामे चमरेन्द्रः प्रियं पप्रच्छ, ततः षण्मानिग्रामे स्वामिनो बहिः प्रतिमास्थस्य पार्चे गोपो वृषान् मुक्त्वा ग्रामं प्रविष्टः, आगतश्च पृच्छतिहादेवाये ! व गता वृषभाः, भगवता च मौने कृते रुष्टेन तेन खामिकर्णयोः कटशलाके तथा क्षिप्ते यथा
oM
Jain Education
a
l
For Private & Personel Use Only
w
ww.jainelibrary.org