SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- च्या०६ ॥१०६॥ आयुः समापयिष्यति, तस्याग्रमहिष्यश्च दीनाननाः शक्राज्ञया खभर्तारं अनुजग्मुः । ततः स्वामिन-18 एकादशी मालम्भिकायां हरिकान्तः, श्वेताम्बिकायां हरिस्सहश्च विद्युत्कुमारेन्द्रौ प्रियं प्रष्टुं एतौ, ततः श्राव-IN चतुर्मासी स्त्यां शक्रः स्कन्दप्रतिमायामवतीर्य स्वामिनं वन्दितवान् , ततो महती महिमप्रवृत्तिः, ततः कौशाम्ब्यां सातप्रश्नोचन्द्रसूर्यावतरणं, वाणारस्यां शक्रो • राजगृहे ईशानो मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं ऽभिग्रहश्च पृच्छन्ति स्म, ततो वैशाल्यां एकादशो वर्षारात्रो (११) ऽभूत्, तत्र भूतः प्रियं पृच्छति, ततः सुसुमारपुरं गतस्तत्र चमरोत्पातः। ततः क्रमेण कौशाम्ब्यां गतस्तत्र शतानीको राजा मृगावती देवी विजया प्रतिहारी वादीनामा धर्मपाठक सुगुप्तोऽमात्यस्तद्भार्या नन्दा सा च श्राविका मृगावत्याः वयस्या, तत्र प्रभुणा पोषबहुलप्रतिपदि अभिग्रहो जगृहे, यथा-द्रव्यतः कुल्माषान् सूर्पकोणस्थान् क्षेत्रतः एकं पादं देहल्या अन्तः एकं पादं बहिश्च कृत्वा स्थिता कालतो निवृत्तेषु भिक्षाचरेषु,भावतो राजसुता दासत्वं प्राप्ता मुण्डितमस्तका निगडितचरणा रुदती अष्टमभक्तिका चेद्दास्यति तदा गृहीष्यामि, इय॑भिगृह्य प्रत्यहं भिक्षायै भ्राम्यति, अमात्यादयोऽनेकानुपायान् कुर्वन्ति न त्वभिग्रहः पूर्यते, तदा च शतानीकेन चम्पा भग्ना, तत्र च दधिवाहनभूपभार्या धारिणी तत्पुत्री च वसुमती द्वे अपि केनचित् पदातिना बन्दितया गृहीते, तत्र च धारिणी त्वां भायाँ करिष्यामीति पत्तिवार्तया जिह्वाचर्वणेन मृता, ततो वसुमती पुत्रीति समाश्वास्य कौशाम्ब्यां आनीय चतु- ॥१०६॥ प्पथे विक्रेतुं स्थापिता, तत्र धनावहश्रेष्ठिना गृहीत्वा चन्दनेति कृताभिधाना पुत्रीत्वेन स्थापिताऽतीव प्रिया २७ Jain Education V R For Private & Personel Use Only XMw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy