________________
॥ १ ॥ ततः षण्मासीं यावत् अनेषणीयाहारसम्पादनादीन् तत्कृतान् नानाप्रकारान् उपसर्गान् सहमानो भगवान्निराहार एव षण्मास्या स गतो भविष्यतीति विचिन्त्य यावद् ब्रजग्रामगोकुले गोचर्यायां प्रविष्टस्तावतत्रापि तत्कृतां अनेषणां विज्ञाय तथैर्वागत्य बहिः प्रतिमया तस्थौ, ततः स सुराधमः कथमपि अस्खलितं विशुद्धपरिणामं जगदीश्वरं अवधिना विज्ञाय विषण्णमानसोऽपि शक्रभियाऽभिवन्द्य सौधर्मं प्रति चचाल । स्वामी च तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमान्नेन प्रतिलाभितो, वसुधारा च निपतिता, इतश्च तावन्तं कालं यावत् सर्वे सौधर्मवासिनो देवा देव्यश्च निरानन्दा निरुत्साहास्तस्थुः शक्रोऽपि वर्जितगीतनाट्य एतावतां उपसर्गाणां हेतुमत्कृता प्रशंसैवेति महादुःखाक्रान्तचित्तः करकमलविन्यस्तमुखो दीनदृष्टिर्विमनस्कस्तस्थौ, ततश्च भ्रष्टप्रतिज्ञं श्यामंमुखं आगच्छन्तं तं सुराधमं निरीक्ष्य शक्रः पराङ्मुखीभूय सुरानित्यूचेहंहो सुरा ! असौ कर्मचण्डालः पापात्मा समागच्छति, अस्य दर्शनं अपि महापापाय भवति, अनेनास्माकं बहु अपराद्धं, यर्दनेनास्मदीयः खामी कदर्थितः, अयं पापात्मा यथा अस्मत्तो न भीतस्तथा पातकादपि न भीतः, तदपवित्रोऽसौ दुरात्मा शीघ्रं खर्गान्निर्वास्यतां, इत्यादिष्टैः शक्रं सुभटैर्निर्द्वयं यष्टिमुष्ट्यादिभिस्ताड्यमानः साङ्गुलिमोटनं कृतान् सुरीणां आक्रोशान् सहमानचौर इव साशङ्क इतस्ततो विलोकयन् निर्वाणाङ्गार इव निस्तेजा निषिद्धखिलपरिवार एकाकी अलर्कश्वेव देवलोकान्निष्कासितो मन्दरचूलायां एकसागरावशेषं
Jain Educationonal
For Private & Personal Use Only
संगमकनिवासिनं
५
१०
१३
w.jainelibrary.org