SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 2 भूव, ततः प्रभुः कूर्मग्रामे गतः, तत्र च वैश्यायनतापसस्य आतापनाग्रहणाय मुत्कलमुक्तजटामध्ये यूकाबाहुल्यदर्शनात् गोशालो यूकाशय्यातर २ इति तं वारं वारं हसितवान्, ततस्तेन क्रुद्धेन तेजोलेश्या मुक्ता, तां च कृपारसाम्भोधिर्भगवान् शीतलेश्यया निवार्य गोशालं रक्षितवान् ततो मङ्खलिसूनुस्तस्य तापसस्य तेजोलेश्यां विलोक्य कथंमियमुत्पद्यते ? इति भगवन्तं पृष्टवान्, भगवानपि अवश्यंभावितया भुजङ्गस्य पयःपानमिव तादृगनर्थकारणं अपि तेजोलेश्याविधिं शिक्षितवान् यथा आतापनापरस्य सदाषष्ठतपसः सनखकुल्माषपिण्डिकथा एकेन च उष्णोदकचुलुकेन पारणां कुर्वतः षण्मास्यन्ते तेजोलेश्योंत्पद्यते इति । ततः सिद्धार्थपुरे व्रजन् गोशालेन स तिलस्तम्बो न निष्पन्न इत्युक्ते स एष तिलस्तम्बो निष्पन्न इति प्रभुः प्रत्याह, गोशालोऽश्रद्दधत् तां तिलशम्बां विदार्य सप्त तिलान् दृष्ट्वा त एव प्राणिनस्तस्मिन्नेव शरीरे पुनः परावृत्त्य समुत्पद्यन्ते इति मतिं नियतिं च गाढीकृतवान्। ततः प्रभोः पृथग्भूय श्रावस्त्यां कुम्भकारशालायां स्थितो भगवदुक्तोपायेन तेजोलेश्यां साधयित्वा त्यक्तव्रत श्रीपार्श्वनाथशिष्यात् अष्टाङ्गनिमित्तं चाधीत्याहङ्कारेण सर्वज्ञोऽहं इति ख्यापयति स्म, यञ्चोक्तं किरणावलीकारेण 'गोशालाय तेजोलेश्योपायः सिद्धार्थेनोक्त' इति तचिन्त्यं, भगवती सूत्रावश्यक चूर्णिहारिभद्वीवृत्ति हैमवीरचरित्राद्यनेकग्रंथेषु भगवतोक्त इत्यभिधानात् ततः स्वामी श्रावस्त्यां दशमं वर्षारात्रं (१०) विचित्रं तपञ्चांकरोदित्याद्यनुक्रमेण खामी बहुम्लेच्छां दृढभूमिं गतः, तस्यां बहिः पेढालग्रामात् पोलासचैत्यैष्टमभक्तेन एकरात्रिकीं प्रतिमां तस्थिवान्, । इतश्च सभागतः शक्रस्त्रैलोक्यजना Jain Educationational For Private & Personal Use Only गोशालरक्षा तेजोलेश्यो त्पाद: दशमी चतुमोसी १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy