SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ कसन्निवेशं गतः, तत्र प्रतिमास्थितस्य वीरस्य सत्कारार्थ सिद्धार्थों भगवद्देहं अधिष्ठाय निमित्तानि कथयति.अच्छन्दक भगवतो महिमा जायते स्म, भगवन्महिमानं दृष्ट्वा प्रद्विष्टेन अच्छन्दकेन तृणच्छेदविषये प्रश्ने कृते सिद्धार्थेन वृत्तं चण्डन छेत्स्यते इत्युक्ते छेदनोद्यतस्य तस्याङ्गुलीदत्तोपयोगः शक्रः समागत्य वज्रेण चिच्छेद, तले रुष्टः सिद्धार्थो कोशिकवृत्त जनानां चौरोऽयमित्यवदत्, ततः कथमिति जनेषु पृच्छत्सु सिद्धार्थो जगौ-अनेन कर्मकरवीरघोषस्य दशपलप्रमितं वलकं गृहीत्वा खजूरीवृक्षांधः स्थापित, द्वितीयं इन्द्रशर्मण ऊरणको भक्षितस्तदेस्थीनि खगृहबा अधः स्थापितानि सन्ति, तृतीयं तु अवाच्यं अस्य भाव कथयिष्यति, ततो जनैर्गत्वा भार्या पृष्टा, साऽपि तद्दिने तेन सह कृतकलहा कोपादुवाच-भो भो जना! अद्रष्टव्यमुखोऽयं पापात्मा यदयं स्वभगिनीमपि भुङ्कते, ततः स भृशं लजितो विजने समागत्य स्वामिनं विज्ञपयामास-स्वामिन् ! त्वं विश्वपूज्यः सर्वत्र पूज्यसे, अहं तु अत्रैव जीवामीति, ततः प्रभुस्तस्याप्रीतिं विज्ञाय ततो विहरन् श्वेताम्ब्यां गच्छन् जनैार्यमाणोऽपि कनकखलतापसाश्रमे चण्डकौशिकप्रतिबोधाय गतः, स च प्राग्भवे महातपस्वी साधुः, पारणके विहरणार्थ गमने जातां मण्डूकीविराधनां ईर्यापथिकीप्रतिक्रमणे गोचरचर्याप्रतिक्रमणे, सायंप्रतिक्रमणे च त्रिशः क्षुल्लकेन स्मारितः सन् क्रुद्धस्तं शैक्षं हन्तुं धावितः स्तम्भेनास्फाल्य मृत्वा ज्योतिष्के देवो जातः, ततश्युतस्तत्राश्रमे पञ्चशततापसाधिपतिश्चण्डकौशिकाख्यो बभूव, तत्रापि राजकुमारान् स्वाश्रमफलानि गृह्णतो विलोक्य क्रुद्ध-18 |स्तानिहन्तुमुद्यतः परशुहस्तो धावन् स कूपे पतितः, सक्रोधो मृत्वा तत्रैवाश्रमे पूर्वभवनाम्ना दृष्टिविषोऽहिब-11 Jan Education S ong For Private Personel Use Only M ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy