SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ६ ॥१००॥ यामास, भगवतोऽग्रे गायति नृत्यति च तदाकर्ण्य च लोकांश्चिन्तितवन्तो - यदनेन स देवाय हतस्ततो गायति नृत्यति च तत्र च खामी देशोनान् रात्रेश्चतुरोऽपि यामान् अत्यन्तं वेदनां सोढवान् इति प्रभाते क्षणं निद्रां लेभे तत्र च प्रभुरूर्ध्वस्थ एव दश खमान् दृष्ट्वा जागरितः, प्रभाते लोको मिलितः, उत्पलेन्द्रशर्माणौ अपि अधीष्टाङ्गनिमित्तौ तत्रागतौ, ते भगवन्तं दिव्यगन्धचूर्णपुष्पपूजितं निरीक्ष्य प्रमुदिताः प्रणमन्ति, तत उत्पलोsवोचत्-हे भगवन् ! ये त्वया निशाशेषे दश खमा दृष्टास्तेषां फलं त्वया तु ज्ञायत एव तदपि मया कथ्यते यत्त्वया तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीयं कर्म हनिष्यसि १ यच्च सेव्यमानः सितः पक्षी दृष्टस्तेन त्वं शुक्लध्यानं ध्यास्यसि २ यश्च चित्र कोकिलः सेवमानो दृष्टस्ततस्त्वं द्वादशाङ्गीं प्रथयिष्यसि ३ यच्च गोवर्गः सेवमानो दृष्टस्तेन साधुसाध्वीश्रावकचा विकारूपश्चतुर्विधः संघस्त्वां सेविष्यते४यश्च त्वया स्वप्ने समुद्रस्तीर्णस्ततस्त्वं संसारं तरिष्यसि ५ यश्चोद्गच्छन् सूर्यो दृष्टस्तेन तव अचिरात् केवलज्ञानं उत्पत्स्यते ६ यच्च त्वया अन्त्रैर्मानुषोत्तरो वेष्टितस्तेन त्रिभुवने तव कीर्त्तिर्भविष्यति ७ यच त्वं मन्दरचूलां आरूढस्तेन त्वं | सिंहासने उपविश्य देवमनुजपर्षदि धर्म प्ररूपयिष्यसि ८ यच्च त्वया विबुधालङ्कृतं पद्मसरो दृष्टं तेन चतुर्नि कायजा देवास्त्वां सेविष्यन्ति ९ यत्त्वया मालायुग्मं दृष्टं तदर्थं तु नाहं जानामि, तदा भगवता प्रोक्तं - हे उत्पल ! यन्मया दामयुग्मं दृष्टं तेन अहं द्विविधं धर्म कथयिष्यामि - साधुधर्म श्रावकधर्मं च तत उत्पलो वन्दित्वा गतः, तत्र खामी अष्टभिः अर्द्धमासक्षपणैस्तां प्रथमां चतुर्मासी (१) मतिक्रम्य ततः स्वामी मोरा Jain Education Internation For Private & Personal Use Only स्वमदशकं प्रथमा चतुमसी १५ २० २५ ॥१००॥ jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy