________________
खजननिवृत्तिः गोपोपसर्गः
॥ अथ षष्ठं व्याख्यानं प्रारभ्यते ॥ ततश्चतुर्तानो भगवान् बन्धुवर्ग आपृच्छय विहारार्थ प्रस्थितो, बन्धुवर्गोऽपि दृष्टिविषयं यावत् तत्र [स्थित्वा-त्वया विना वीर ! कथं व्रजामो, गृहेऽधुना शून्यवनोपमाने? । गोष्टीसुखं केन सहाचरामो, भोक्ष्यामहे केन सहाथ बन्धो!॥१॥ सर्वेषु कार्येषु च वीर वीरेत्यामन्त्रणादर्शनतस्तवाय ।। प्रेमप्रकर्षादभजाम हर्ष, निराश्रयाश्चाथ कमाश्रयामः? ॥२॥ अतिप्रियं बान्धव! दर्शनं ते, सुधाऽञ्जनं भावि कदाऽस्मदक्ष्णोः । नीरागचित्तोऽपि कदाचिर्दस्मान् , स्मरिष्यसि प्रौढगुणाभिराम ! ॥३॥' इत्यादि वदन् कष्टेन निव-11 त्य साश्रुलोचनः खगृहं जगाम। किञ्च-प्रभुर्दीक्षामहोत्सवे यद्देवैर्गोशीर्षचन्दनादिना पुष्पैश्च पूजितोऽभूत् साधिकमासचतुष्कं यावत् तदवस्थेन च तद्गन्धेन आकृष्टा भ्रमरा आगत्य गाढं त्वचं दशन्ति युवानश्च गन्धपुटी याचन्ते, मौनवति च भगवति रुष्टास्ते दुष्टान् उपसर्गान् कुर्वन्ति, स्त्रियोऽपि भगवन्तं अद्भुतरूपं तथा सुगन्धशरीरं च निरीक्ष्य कामपरवशा अनुकूलान् उपसर्गान् कुर्वन्ति, भगवांस्तु मेरुरिव निष्पकम्पः सर्व सहमानो विहरति । तस्मिन् दिने च मुहूर्तावशेषे कुमारग्रामं प्राप्तस्तत्र रात्रौ कायोत्सर्गेण स्थितः, इतश्च तत्र कश्चिद् गोप: सर्व दिनं हले वृषान् वाहयित्वा सन्ध्यायां तान् प्रभुपाचे मुक्त्वा गोदोहाय गृहं गतः, वृषभास्तु वने चरितुं गताः, स चागत्य प्रभुं पृष्टवान्-देवार्य ! क मे वृषाः?, अजल्पति च प्रभौ अयं न वेत्तीति वने विलो
क.स. १७||
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org