________________
कल्प.सुबो-हारनागरीनिरीक्ष्यमाणविभवप्रकर्षस्य भगवतः पुरतः प्रथमतो रत्नमयान्यष्टौ मङ्गलानि क्रमेण प्रस्थितानि, दीक्षाभिषेव्या०५ तद्यथा-स्वस्तिकः १ श्रीवत्सो २ नन्द्यावतॊ ३ वर्द्धमानकं ४ भद्रासनं ५ कलशो ६ मत्स्ययुग्मं ७ दर्पणश्च ८, कासू.११३
ततः क्रमेण पूर्णकलशभृङ्गारचामराणि ततो महती वैजयन्ती ततश्छत्रं ततो मणिस्वर्णमयं सपादपीठं ॥९३॥
सिंहासनं ततोऽष्टशतं आरोहरहितानां वरकुञ्जरतुरगाणां ततस्तावन्तो घण्टापताकाभिरामाः शस्त्रपूर्णा रथाः ततस्तावन्तो वरपुरुषाः ततः क्रमेण हय १ गज २ रथ ३ पदात्यनीकानि ४ ततो लघुपताकासहस्रपरिमण्डितः सहस्रयोजनोचो महेन्द्रध्वजः ततः खगग्राहाः कुन्तग्राहाः पीठफलकग्राहाः ततो हासकारकाः नर्तनकारकाः कान्दर्पिका जयजयशब्दं प्रयुञ्जानास्तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियास्तलवरा माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहाः देवा देव्यश्च स्वामिनः पुरतः प्रस्थिताः, तदनन्तरं (सदेवमणुआसुराए) देवमनुजासुरसहितया स्वर्गमर्त्यपातालवासिन्या (परिसाए) पर्षदा (समणुगम्ममाणत्ति) सम्यग् अनुगम्यमानं (मग्गे )अग्रतः (संखियत्ति) शखिका:-शङ्खवादकाः (चक्कियत्ति) चाक्रिका:-चक्रप्रहरणधारिणः (लंगलियत्ति) लाङ्गलिका-गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणोभविशेषाः (मुहमंगलियत्ति) मुखे प्रियवक्तारश्चाटुकारिण इत्यर्थः (वद्धमाणत्ति) वर्द्धमानाः-स्कन्धारोपितपुरुषाः पुरुषाः (पूसमाणत्ति) पुष्पमाणवा-मागधाः (घंटियगणे) घण्टया चरन्तीति घाण्टिका 'राउलिआ' इति लोके प्रसिद्धाः एतेषां गणैः परिवृतं च भगवन्तं प्रक्रमात् कुलमहत्सरादयः खजनाः (ताहिं इहाहिं जाव वग्गूहि) तामिरिष्टादिविशेषणविशिष्टाभिवोग्भिः।
२५
॥९३॥
Jain Education Internatioal
For Private & Personel Use Only
jainelibrary.org