SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पद्मसर इव पुष्पितं अतसीवनमिव कर्णिकारवनमिव चम्पकवनमिव तिलकवनमिव रमणीयं गगनतलं सुरवरै- दीक्षामिषेरभूत्, किञ्च-निरन्तरं वाद्यमानभम्भाभेरीमृदङ्गदुन्दुभिशङ्खाद्यनेकवाद्यध्वनिर्गगनतले भूतले च प्रससार, तन्ना-19 कःमू.११३ देम च नगरवासिन्यस्त्यक्तखखकार्या नार्यः समागच्छन्त्यो विविधचेष्टाभिर्जमान विस्मापयन्ति स्म, यतः-18 तिनिवि थीआं वल्लहां कलि कजल सिंदूर । ए पुण अतीहि वल्लहां दूध जमाइ तूर ॥१॥ चेष्ठाश्चेमाः-खग-19 ISल्लयोः काचन कज्जलाडूकं, कस्तूरिकाभिनयनाञ्जनं च । गले चलन्नूपुरमहिपीठे, ग्रैवेयकं चारु चकार बाला ॥१॥ कटीतटे कापि बबन्ध हारं, काचित् कणत्किङ्किणिकां च कण्ठे । गोशीर्षपङ्कन ररज पादावलक्तपकेन वपुर्लि-18 लेप ॥२॥ अर्धनाता काचन बाला, विगलत्सलिला विश्लथवाला । तत्र प्रथममुपेता त्रासं, व्यधित न केषां ज्ञाता हासम् ॥ ३॥ कापि परिच्युतविश्लथवसना, मूढा करधृतकेवलरसना । चित्रं तत्र गता न ललज्जे, सर्वजने जिनवीक्षणसज्जे ॥ ४॥ संत्यज्य काचित्तरुणी रुदन्तं, खपोतमोतुं च करे विधृत्य । निवेश्य कट्यां त्वरया वजन्ती, हासावकाशं न चकार केषाम् ? ॥५|| अहो महो रूपमहो महौजः, सौभाग्यमेतत् कटरे शरीरे। गृह्णामि दुःखानि करस्य धातुर्यच्छिल्पमीहम् वदति स्म काचित् ॥ ६॥ काचिन्महेला विकसत्कपोला, श्रीवीरवक्वेक्षणगाढलोला । विनस्य दूरं पतितानि तानि,नोज्ञासिषुः काञ्चनभूषणानि ॥७हस्ताम्बुजाभ्यां शुचिमौक्तिकौधेरवाकिरन् काश्चन चञ्चलाक्ष्यः । काश्चिजगुर्मञ्जलमङ्गलानि, प्रमोदपूर्णा ननृतुश्च काश्चित् ॥ ८॥ इत्थं नाग १त्रीण्यपि स्त्रीणां वल्लभानि कलिः कजलं सिन्दूरम् । एतानि पुनः अतीव वल्लभानि दुग्धं जामाता तूर्यम् ॥ १॥ AN Jain Educationing For Private Personal use only a ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy