SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ५ ॥ ९० ॥ | पुनरपि लोकान्तिकैर्देवैर्वोधित इति विशेषो द्योत्यते, लोकान्ते संसारान्ते भवाः लोकान्तिका, एकावतार - स्वात्, अन्यथा ब्रह्मलोकवासिनां तेषां लोकान्तभवत्वं विरुद्ध्यते, ते च नवविधाः, यदुक्तं - सोरस्सय १माइच्चा २ वण्ही ३ वरुणा य ४ गद्दतोया य ५ । तुडिआ ६ अवाबाहा ७ अग्गिचा ८ चेव रिट्ठा य ९ ॥ १ ॥ | एए देवनिकाया भयवं बोहिन्ति जिणवरिंदं तु । सवजगज्जीवहियं भयवं ! तित्थं पवतेहि ॥ २ ॥ यद्यपि स्वयम्बुद्धो भगवांस्तदुपदेशं नापेक्षते तथापि तेषां अयं आचारो वर्त्तते, तदेवाह - ( जीयकप्पिएहिं देवेहिं ) जीतेन - अवश्यंभावेन, कल्पः- आचारो जीतकल्पः सोऽस्ति येषां ते जीतकल्पिकाः एवंविधा ते देवाः विभ क्तिपरावर्त्तनात् (ताहिं इट्ठाहिं ) ताभिः इष्टाभिः ( जाव वग्गूहिं ) यावत्शब्दात् ' कंताहिं मणुन्नाहिं ' इत्यादि पूर्वोक्तः पाठो वाच्यः, एवंविधाभिर्वाग्भिः ( अणवरयं ) निरन्तरं भगवन्तं ( अभिनंदमाणा य ) अभिनन्दयन्तः - समृद्धिमन्तं आचक्षाणा: ( अभिधुवमाणा य) अभिष्टुवन्तः - स्तुतिं कुर्वन्तः सन्तः ( एवं वयासी) एवं अवादिषुः ॥ ( ११० ) ॥ १ सप्ताष्टभवा इति प्रवचनसारोद्धारे, लोकस्य -ब्रह्मलोकस्य अन्ते - समीपे भवा लोकान्तिका इतिव्युत्पत्तेरौ पपातिकादौ दर्शनाश्च नायमेकान्तः, लोकप्रकाशे स्वयमपि तथोक्तं २ सारस्वता आदित्या वह्नयो वरुणाश्च गर्दतोयाश्च । त्रुटिता अव्याबाधा आग्नेयाश्चैव रिष्ठाश्च ॥ १ ॥ एते देवनिकाया भगवन्तं बोधयन्ति जिनवरेन्द्रं तु । सर्व जगज्जीवहितं भगवन् ! तीर्थं प्रवर्तय ।। २ ।। Jain Education International For Private & Personal Use Only वर्षद्वयावस्थानं लोकान्तिकागमश्व सू. ११० १५ २० २३ ॥ ९० ॥ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy