________________
लोकान्तिकोक्तिम. १११
(जय जय नंदा) जयं लभख २, सम्भ्रमे द्विवचनं, नन्दति-समृद्धो भवतीति नन्दस्तस्य सम्बोधनं हे नन्द ! दीर्घत्वं प्राकृतत्वात्, एवं (जय जय भद्दा) जय जय भद्र!-कल्याणवन् ! (भई ते) ते-तव भद्रं भवतु (जय जय खत्तियवरवसहा) जय जय क्षत्रियवरवृषभ! (बुज्झाहि भगवं लोगनाह ) बुद्ध्यख भगवन् ! लोकनाथ ! (सयलजगज्जीवहियं ) सकलजगज्जीवहितं (पवत्तेहि धम्मतित्थं ) प्रवर्तय धर्मतीर्थ, यत इदं (हियसुहनिस्से
यसकर) हितं-हितकारकं सुख-शर्म निःश्रेयसं-मोक्षस्तत्करं (सवलोए सव्वजीवाणं) सर्वलोके सर्वजीवानां ISI(भविस्सइत्तिकट्ठ जयजयसई पउंजंति) भविष्यतीतिकृत्वा-इत्युक्त्वा जयजयशब्द प्रयुञ्जन्ति ॥ (१११)॥ I (पुस्विपि णं) इदं पदं 'गिहत्थधम्माओ' इत्यस्मादग्रे योज्यं, (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (माणुस्सगाओ गिहत्थधम्माओ) मनुष्ययोग्यात् एवंविधात् गृहस्थधर्मात्-गृहव्यवहारात् विवाहादेः पूर्वमपि (अणुत्तरे आभोइए) अनुपमं आभोगः-प्रयोजनं यस्य तत् आभोगिकं (अप्पडिवाई नाण-| दसणे हुत्था) अप्रतिपाति-आकेवलोत्पत्तेः स्थिरं एवंविधं ज्ञानदर्शनं-अवधिज्ञानं अवधिदर्शनं च अभूत् (तएणं समणे भगवं महावीरे) ततः श्रमणो भगवान महावीरः (तेणं अणुत्तरेणं आभोइएणं) तेन अनुत्तरेण आभोगिकेन (नाणदंसणेणं) ज्ञानदर्शनेन (अप्पणो निक्खमणकालं) आत्मनो दीक्षाकालं (आभोएइ) आभोगयति-विलोकयति (आभोइत्ता) आभोग्य च (चिच्चा हिरणं) त्यक्त्वा हिरण्यं-रूप्यं (चिचा सुवणं ) त्यक्त्वा सुवर्ण (चिच्चा धणं) त्यक्त्वा धनं (चिचा रजं) त्यत्तवा राज्यं (चिचा रह) त्यक्त्वा राष्ट्र-देशं ( एवं
ॐ202012900000000000
कल्प.सु. १६
Jain Education intermanonal
For Private Personal Use Only