SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- पुरो यद्वचसां विलासः ॥२॥ यतः-अनध्ययनविद्वांसो, निद्रव्यपरमेश्वराः । अनलङ्कारसुभगाः, पान्तु लेखशालाव्या०५युष्मान् जिनेश्वराः॥१॥ इत्यादि वदन् कृतब्राह्मणरूपस्त्वरितं यत्र भगवान् तिष्ठति तत्र पण्डितगेहे समा- मोचनं जगाम, आगत्य च पण्डितयोग्ये आसने भगवन्तं उपवेश्य पण्डितमनोगतान् संदेहान् पप्रच्छ, श्रीवीरोऽपि ॥८८॥ बालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकललोकेषु सर्वाणि उत्तराणि ददौ, ततो जैनेन्द्रं व्याकरणं जज्ञे, यतः-सक्को अ तस्समक्खं भगवन्तं आसणे निवेसित्ता । सद्दस्स लक्खणं पुच्छि वागरणं अवयवा इंदं ॥१॥ सर्वे जना विस्मयंप्रापुर-अहो बालेनापि वर्द्धमानकुमारेण एतावती विद्या कुत्राधीता?, पण्डितोऽपि चिन्तयामास-आवालकालादपि मामकीनान् , यान् संशयान् कोऽपि निरासयन्न । बिभेद तांस्तान्निखिलान् स एष, बालोऽपि भोः! पश्यत चित्रमेतत् ॥१॥ किञ्च-अहो ईदृशस्य विद्याविशारदस्यापि ईदृशं गाम्भीर्य, अथवा युक्तमेवेदं | ईदृशस्य महात्मनः, यतः-गर्जति शरदिन वर्षति- वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति साधुः करोत्येव ॥१॥ तथा-असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । न हि स्वर्णे ध्वनिस्ताहग, यादृक् कांस्ये प्रजायते ॥२॥ इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाच-मनुष्यमात्रं शिशुरेष विप्र!, नाशकनीयो भवता स्वचित्ते । विश्वत्रयीनायक एष वीरो, जिनेश्वरो वाङ्मयपारदृश्वा ॥३॥ इत्यादि श्रीवर्धमा- ॥८८॥ नस्तुर्ति निर्माय शक्रः स्वस्थानं जगाम, भगवानपि सकलज्ञातक्षत्रियपरिकलितः खगृहमागात्, इति श्रीले-18 १ शक्रश्च तत्समक्षं भगवन्तं आसने निवेश्य । शब्दस्य लक्षणमपृच्छत् व्याकरणं अवयवा ऐन्द्रं ॥ १ ॥ Jain Education Central For Private Personel Use Only Malw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy