SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ लेखशालामोचनं लायाम् ॥१॥ लग्नदिवसव्यवस्थितिपुरस्सरं परमहर्षसंपन्नौ । प्रौढोत्सवान्महानि , वितेनतुर्घनधनव्ययतः ॥२॥ तथाहिजतुरगसमूहैः स्फारकेयूरहारैः, कनकघटितमुद्राकुण्डलैः कङ्कणायैः। रुचिरतरदुकूलैः पञ्च वर्णैस्तदानीं, खजनमुखनरेन्द्राः सक्रियन्ते स्म भत्तया ॥३॥ तथा-पण्डितयोग्यं नानावस्त्रालङ्कारनालिकेरा-1 दि । अथ लेखशालिकानां.दानार्थमनेकवस्तूनि ॥४॥ तथाहि-पूगीफलशृङ्गाटकखजूरसितोपलास्तथा खण्डा। चारुकुलीचारुबीजादाक्षादिसुखाशिकावृन्दम् ॥५॥ सौवर्णरात्नराजतमिश्राणि च पुस्तकोपकरणानि । कमनीयमषीभाजनलेखनिकापट्टिकादीनि ॥६॥ वाग्देवीप्रतिमा कृतये सौवर्णभूषणं भव्यम् । नव्यबहुरत्नखचितं. छात्राणां विविधवस्त्राणि ॥७॥ इत्यादिसमग्रपठनसामग्रीसहितः कुलवृद्धाभिस्तीर्थोदकैः स्लपितः परिहितप्रचुरालङ्कारभासुरः शिरोधृतमेघाडम्बरच्छन्नश्चतुश्चामरवीजिताङ्गश्चतुरङ्गसैन्यपरिवृतो वाद्यमानानेकवादित्रः पण्डितगेहं उपाजगाम, पण्डितोऽपि भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदकधौतिकहेमयज्ञोपवीतकेसरतिलकादिसामग्री यावत् करोति तावत् पिप्पलपर्णवत् गजकर्णवत् कपटिध्यानवत् नृपतिमानवत् चलाचलसिंहासनः शक्रोऽवधिना ज्ञाततत्वरूपो देवान् इत्थं अवादीत्-अहो! महच्चित्रं ! यद्भगवतोऽपि लेखशालायां मोचनं, यतः-साऽऽने वन्दनमालिका स मधुरीकारः सुधायाःस च, ब्रायाः पाठविधिःस शुभ्रिमगुणारोप: सुधादीधितौ । कल्याणे कनकच्छटाप्रकटनं पाविन्यसंपत्तये, शास्त्राध्यापनमहतोऽपि यदिदं सल्लेखशालाकृते ॥१॥ मातुः पुरो मातुलवर्णनं तत्, लङ्कानगाँ लहरीयकं तत् । तत्प्राभृतं लावणमम्बुराशेः, प्रभोः Jain Education For Private & Personel Use Only O w .jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy