________________
कल्प.सुबो- शब्दात् 'सचिड्डीए सवजुइए सबबलेणं सववाहणेणं सबसमुदएणं' इत्येतानि पदानि वाच्यानि, तेषां चायमर्थ:-11
करशुल्काव्या०५। 'सविड्डीए'त्ति सर्वया ऋद्ध्या युक्त इति गम्यं, एवं सर्वेष्वपि विशेषणेषु वाच्यं, सर्वया युक्त्या-उचितवस्तुसंयोगेनदिवर्जनम्
आभरणादिद्युत्या वा, सर्वेण बलेन-सैन्येन.सर्वेण वाहनेन-शिविकातुरगादिना सर्वेण समुदयेन-परिवारादि- सू. १०२ ॥८३॥18
समूहेन,एवं यावत्शब्दसूचितं अभिधाय ततः 'सबोरोहेणं' इत्यादि वाच्यं, तत्र 'सहोरोहेणंति' सर्वावरोधेन, सर्वेण अन्तःपुरेणेत्यर्थः ( सवपुप्फगंधवत्थमल्लालंकारविभूसाए) सर्वया पुष्पगन्धवस्त्रमाालङ्काराणां विभूषया युक्तः (सच्चतुडियसद्दनिनाएणं) सर्ववादित्राणि तेषां शब्दो निनादः-प्रतिरवश्च तेन युक्तः (महया इड्डीए) महत्या ऋद्ध्या-छत्रादिरूपया युक्तः (महया जुईए) महत्या युक्त्या-उचिताड़म्बरेण युक्तः (महया बलेणं ) महता बलेन-चतुरङ्गसैन्येन युक्तः (महया वाहणेणं) महता वाहनेन-शिविकादिना युक्तः (महया समुदएणं) महता समुदयेन-खकीयपरिवारादिसमूहेन युक्तः (महया वरतुडियजमगसमगप्पवाइएणं) महत्-विस्तीर्ण यत् वराणां-प्रधानानां त्रुटितानां-वादित्राणां जमगसमगं-युगपत् प्रवादितं-शब्दस्तेन, तथा (संखपणवभेरिझल्लरिखरमुहिहुडुकमुरजमुइंगदुदुंहिनिग्घोसनाइयरवेणं) शङ्ख:-प्रतीतः पणवो-मृत्पटहः भेरीढक्का झल्लरी-प्रतीता.खरमुखी-काहला हुडुक्का-तिवलितुल्यो वाद्यविशेषः मुरुजो-मईल: मृदंगः-मृन्मयः स
॥८३॥ एव.दुन्दुभिः-देववाद्यं एतेषां यो निर्घोषो-महाशब्दो नादितं च-प्रतिशब्दस्तद्रूपो यो रवस्तेन, एवंरूपया सकलसामय्या युक्तः सिद्धार्थो राजा दश दिवसान यावत् स्थितिपतितां-कुलमर्यादां महोत्सवरूपां करो-18
१५
in Educh an in
For Private & Personal Use Only
www.jainelibrary.org