SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ कचवरापनयनेन, उपलिप्तं छगणादिना ततः कर्मधारयः, पुनः किंवि० ? (सिंघाडगतिअचउक्कचच्चरचउम्मुह- मानवृष्यामहापहपहेस) शृङ्गाटक-त्रिकोणं स्थानं, त्रिक-मार्गत्रयसंगमः, चतुष्क-मार्गचतुष्टयसङ्गमः चत्वरं-अनेकमा-दिसू.१०० गसङ्गमः, चतुर्मुख-देवकुलादि. महापन्था-राजमार्गः, पन्थान:-सामान्यमार्गाः एतेषु स्थानेषु (सित्तत्ति) |सिक्तानि जलेन अत एव (सुइत्ति) शुचीनि-पवित्राणि (संमट्टत्ति) संमृष्टानि-कचवरापनयनेन समीकृतानि (रत्थंतरावणवीहियं) रथ्यान्तराणि-मार्गमध्यानि तथा आपणवीथयश्च-हट्टमार्गा यस्मिन् तत्तथा, पुनः किंवि०? ( मंचाइमंचकलिअं) मञ्चा-महोत्सवविलोककजनानां उपवेशननिमित्तं मालकाः अतिमञ्चका:-तेषां अपि उपरि कृता मालकास्तैः कलितं, पुनः किंवि० ? (नाणाविहरागभूसिअझयपडागमंडिअं) नानाविधै Sरागैर्विभूषिता ये ध्वजा:-सिंहादिरूपोपलक्षिता बृहत्पटाः, पताकाश्च-लध्व्यस्ताभिर्मण्डितं-विभूषितं, पुनः किंवि०? (लाउल्लोइअमहियं) छगणादिना भूमौ लेपन सेढिकादिना भित्त्यादी धवलीकरणं ताभ्यां महितं इव-पूजितं इव, पुनः किंवि०? (गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं) गोशीर्ष-चंदनविशेषः तथा सरसं यत् रक्तचन्दनं तथा दर्दरनामपर्वतजातं चन्दनं तैः दत्ताः पञ्चाङ्गुलितला-हस्तकाः कुड्यादिषु यत्र तत्तथा, पुनः किंवि०? (उवचियचंदणकलसं) उपनिहिता गृहान्तश्चतुष्केषु चन्दनकलशाः यत्र तत्तथा (चंदणघडसुकयतोरणपडिदुवारदेसभागं) चन्दनघटैः सुकृतानि-रमणीयानि तोरणानि च प्रतिद्वारदेशभाग-द्वारस्य द्वारस्य देशभागे यस्मिन् तत्तथा, पुनः किंवि०१ (आसत्तोसत्तविपुलववग्घारियमल्लदामक 389209088easo900me Jain Education a l For Private Personel Use Only teliww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy