________________
हर्षचेष्टा
दोषकरो नृणाम् । नालिकेराम्भसि न्यस्तः, कपूरो मृतये यथा ॥३॥ इत्येवंप्रकारेण स श्रमणो भगवान् महावीरो (माऊअ अयमेयारूवं) मातुरिमं एतद्रूपं (अब्भत्थियं पत्थियं मणोगयं) आत्मविषयं प्रार्थित मनोगतं ( संकप्पं समुप्पन्नं विजाणित्ता) संकल्पं समुत्पन्नं अवधिना विज्ञाय ( एगदेसेणं एयइ ) एकदेशेन-अङ्गुल्यादिना एजते-कम्पते ( तए णं सा तिसला खत्तिआणी ) ततः सा त्रिशला क्षत्रि-18 याणी (हह तुट्ठ जाव हिअया) हृष्टतुष्टादिविशेषणविशिष्टायावत् हर्षपूर्णहृदया (एवं वयासी) एवं अवादीत् ॥ (९३)॥ ___ अथ किं अवादीत् ? इत्याह-(नो खलु मे गम्भे हडे ) नैव निश्चयेन मे गर्भो हृतोऽस्ति (जाव नो गलिए) यावत् नैव गलितः (एस मे गन्भे पुब्विं नो एयह ) एष मे गर्भः पूर्व न कम्पमानोऽभूत् (इयाणि एयइत्तिकट्ठ) इदानी कम्पते इतिकृत्वा (हहतुट्ठ जाव हियया एवं विहरइ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया, इंदृशी सती विहरति, अथ हर्षिता त्रिशलादेवी यथाऽचेष्टत तथा लिख्यते-मोल्लसितनयनयुगला,स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला.रोमाञ्चितकञ्चुका त्रिशला ॥१॥ प्रोवाच मधुरवाचा.गर्भे मे विद्यतेऽथ कल्याणम् । हा धिग मयकानुचितं चिन्तितमतिमोहमतिकतया ॥२॥ सन्त्यथ मम भाग्यानि.त्रिभुवनमान्या तथा च धन्याऽहं । श्लाघ्यं च जीवितं मे कृतार्थतामाप मे जन्म ॥३॥ श्रीजिनपदाः प्रसेदुः कृताः प्रसादाच गोत्रदेवीभिः। जिनधर्मकल्पवृक्षस्त्वाजन्माराधितः फलितः॥४॥ एवं सहर्षचित्तां देवीमालोक्य
Jain Education
a
l
For Private & Personel Use Only
Xww.jainelibrary.org