________________
कल्प.सुबो- व्या०४ ॥६७॥
सू. ७९
पूर्णानि च पञ्चेन्द्रियाणि यत्र एवंविधं शरीरं यस्य स तथा तं (लक्खणवंजणगुणोववेयं) लक्षणव्यञ्जनानां चतुर्दशस्त्रगुणैरुपपेतं (माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरंग) मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि च मालम् सर्वाङ्गानि यत्र एवंविधं सुन्दरं अङ्गं यस्य स तथा तं (ससिसोमागारं) चन्द्रवत् सौम्याकारं (कंतं) वल्लभं (पियदसणं) प्रियं दर्शनं यस्य स तथा तं (सुरुवं ) सुरूपं (दारयं पयाहिसि) एवंविधं दारक-पुत्रं प्रजनिष्यति ॥ (७८)॥ । (सेवि य णं दारए) सोऽपि च दारकः ( उम्मुक्कबालभावे) उन्मुक्तबालभावः (विष्णायपरिणयमित्ते) विज्ञानं परिपक्वं यस्य स तथा तं (जोवणगमणुप्पत्ते) यौवनावस्थामनुप्राप्तः सन् ( सूरे वीरे विकंते) दानादिषु शूरः सङ्ग्रामे वीरः परमण्डलाक्रमणसमर्थः (विच्छिण्णविपुलबलवाहणे) विस्तीर्णविपुले बलवाहने यस्य स तथा तं (चाउरंतचक्कवट्टी रजवई राया भविस्सइ) चतुरन्तखामी एवंविधश्चक्रवर्ती राज्यखामी % राजा भविष्यति (जिणे वा तिलुकनायगे धम्मवरचाउरंतचक्कवट्टी) जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती, तत्र जिनत्वे चतुर्दशानां अपि स्वप्नानां पृथक् पृथक् फलानि इमानि-चतुईन्तहस्तिदर्शनाचतुर्धा धर्म कथयिष्यति १ वृषभदर्शनाद् भरतक्षेत्रे बोधिबीजं वपस्यति २ सिंहदर्शनात् मदनादिदुर्गजभज्यमानं भव्यवनं रक्षिष्यति ३ लक्ष्मीदर्शनाद् वार्षिकदानं दत्त्वा तीर्थकरलक्ष्मी भोक्ष्यते ४ दामदर्शनात् त्रिभुवनस्य मस्तकधार्यो भविष्यति ५ चन्द्रदर्शनात् कुवलये मुदं दास्यति ६ सूर्यदर्शनाद्भामण्डलभूषितो भविष्यति ।
२८
Jain Education
a
l
For Private & Personal Use Only
Svw.jainelibrary.org