SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ४ शस्त्र ॥ ६५ ॥ Jain Education In अपहारो हयवारणयानासनसद्ननिवसनादीनाम् । नृपशङ्का शोक करो, बन्धुविरोधार्थहानिकरः ॥१३॥ यः सूर्याचन्द्रमसोर्बिम्बं ग्रसते समग्रमपि पुरुषः । कलयति दीनोऽपि महीं ससुवर्णा सार्णवां नियतम् ॥ १४ ॥ हरणं प्रहरणभूषणमणिमौक्तिक कनकरूप्यकुप्यानाम् । धनमानम्लानिकरं दारुणमरणावहं बहुशः ॥ १५ ॥ आरूढः शुभ्रमिभं, नदीतटे शालिभोजनं कुरुते । भुङ्क्ते भूमीमखिलां स जातिहीनोऽपि धर्मधनः ॥ १६ ॥ निजभार्याया हरणे, वसुनाशः परिभवे च संक्लेशः । गोत्रस्त्रीणां तु नृणां जायेते बन्धुवधबन्धौ ॥ १७ ॥ शुभ्रेण दक्षिणस्यां यः फणिना दश्यते निजभुजायाम् । आसादयति सहस्रं कनकस्य स पञ्चरात्रेण ॥ १८ ॥ जायेत यस्य हरणं निजशयनोपानहां पुनः स्वमे । तस्य म्रियते दयिता, निविडा स्वशरीरपीडा च ॥ १९ ॥ यो मानुषस्य मस्तक चरणभुजानां च भक्षणं कुरुते । राज्यं कनकसहस्रं तदर्धमाप्नोत्यसौ क्रमशः ॥ २० ॥ द्वारपरिघस्य शयनप्रेङ्खोलनपादुका निकेतानाम् । भञ्जनमपि यः पश्यति तस्यापि कलत्रनाशः स्यात् ॥ २१ ॥ कमलाकररत्नाकरजलस|म्पूर्णापगाः सुहृन्मरणम् । यः पश्यति लभतेऽसावनिमित्तं वित्तमतिविपुलम् ॥ २२ ॥ अतितप्तं पानीयं, सगोमयं गड्डुलमौषधेन युतम् । यः पिबति सोऽपि नियतं म्रियतेऽतीसाररोगेण ॥ २३ ॥ देवस्य प्रतिमाया यात्रास्पोपहारपूजादीन् । यो विदधाति स्वप्ने, तस्य भवेत् सर्वतो वृद्धिः ॥ २४ ॥ स्वप्ने हृदयसरस्यां यस्य प्रादुर्भ वन्ति पद्मानि । कुष्ठविनष्टशरीरो, यमवसतिं याति स त्वरितम् ॥ २५ ॥ आज्यं प्राज्यं स्वमे यो विन्दति वीक्षते यशस्तस्य । तस्याभ्यवहरणं वा क्षीरान्नेनैव सह शस्तम् ॥ २६ ॥ हसने शोचनमचिरात् प्रवर्त्तने नर्त्तने च वध For Private & Personal Use Only स्वप्नवि चारः १५ २० २५ ॥ ६५ ॥ २८ w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy