SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चारः शाणिच्छियट्ठा) विनिश्चितार्थाः, अत एव ( अहिगयट्ठा) अभिगतार्थाः-अवधारितार्थाः सन्तः (सिद्धत्थस्स|| खप्नविIS रन्नो पुरओ) सिद्धार्थस्य राज्ञः पुरतः (सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा) खामशास्त्राण्युच्चारयन्तः (सिद्धत्थं खत्तियं ) सिद्धार्थ क्षत्रियं (एवं वयासी) एवमेवादिषुः, स्वप्नशास्त्राणि पुनरेवं-अनुभूतः१ श्रुतो २ दृष्टः ३, प्रकृतेश्च विकारजः ४ । स्वभावतः समुद्भूत ५श्चिन्तासन्ततिसम्भवः ६॥१॥ देवताद्युपदेशोत्थो ७, धर्मकर्मप्रभावजः ८। पापोद्रेकसमुत्थश्च -९, स्वप्नः स्यान्नवधा नृणाम् ॥२॥ प्रकारैरादिमैः षड्भिरशुभश्च शुभोऽपि वा । दृष्टो निरर्थकः स्वनः, सत्यस्तु त्रिभिरुत्तरैः॥३॥रात्रेश्चतुषु यामेषु, दृष्टः खमः फलप्रदः। मासै दशभिः षडिस्त्रिभिरेकेन च क्रमात् ॥४॥ निशाऽन्त्यघटिकायुग्मे, दशाहात्फलति ध्रुवम् । दृष्टः सूर्योदये स्वप्नः, सद्यः फलति निश्चितम् ॥ ५॥ मालास्वप्नोऽहि दृष्टश्च, तथाऽऽधिव्याधिसम्भवः । मलमूत्रादिपीडोत्था, स्वमः सर्यो निरर्थकः॥६॥ धर्मरतः समधातुर्यः स्थिरचित्तो जितेन्द्रियः सदयः। प्रायस्तस्य प्रार्थितम) स्वनः प्रसाधयति ॥७॥न श्राव्यः कुस्वमो.गुर्वादेस्तदितरः पुनः श्राव्यः । योग्यश्राव्याभावे, गोरपि कर्णे प्रविश्य वदेत् ॥८॥ इष्टं दृष्ट्वा स्वप्नं न सुप्यते नाप्यते फलं तस्य । नेया निशाऽपि सुधिया जिनराजस्तवनसंस्तवतः॥९॥ खप्नमनिष्टं दृष्ट्वा, सुप्यात्पुनरपि निशामवाप्यापि । नायं कथ्यः कथमपि केषांचित् फलति न स यस्मात् ॥ १०॥ पूर्वमनिष्टं दृष्ट्वा स्वमं यः प्रेक्षते शुभं पश्चात्। स तु फलदस्तस्य.भवेद् द्रष्टव्यं तददिष्टेऽपि K॥ ११॥ स्वमे मानवमृगपतितुरङ्गमातङ्गवृषभसिंहीभिः।युक्तं रथमारूढो यो गच्छति भूपतिः स भवेत् ॥१२॥ 9823929239 ५ 80SO902 Jain Education a l For Private & Personel Use Only ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy