________________
10.
॥ अथ चतुर्थ व्याख्यानं प्रारभ्यते ॥
खानपाठकानामुपवेशनं सकार:सू. ६८-६९
। (तए णं ते सुविणलक्खणपाढगा)ततस्ते स्वप्नलक्षणपाठकाः (सिद्धत्थेणं रन्ना वंदिअत्ति) सिद्धार्थेन राज्ञा वन्दिताः गुणस्तुतिकरणेन (पूइअत्ति) पूजिताः पुष्पादिभिः (सकारिअत्ति) सत्कारिताः फलवस्त्रादिदानेन (सम्माणिआ समाणा) सन्मानिता: अभ्युत्थानादिभिः, एवंविधाः सन्तः (पत्तेयं पत्तेयं पुवनत्थेसु भद्दासणेसु निसीअंति) प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति ॥ (६८)॥ - (तए णं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (तिसलं खत्तिआणिं) त्रिशलां क्षत्रियाणी (जवणिअंतरियं ठावेइ) यवनिकान्तरितां स्थापयति (ठावित्ता) स्थापयित्वा (पुप्फफलपडिपुन्नहत्थे) पुष्पैःप्रतीतैः फलैः-नालिकेरादिभिः प्रतिपूर्णी हस्तौ यस्य स तथा, यतः-रिक्तपाणि पश्येच, राजानं दैवतं गुरुम् । निमित्तज्ञं विशेषेण, फलेन फलमादिशेत् ॥१॥ ततः पुष्पफलप्रतिपूर्णहस्तः सन् (परेणं विणएणं) उत्कृष्टेन विनयेन (ते सुविणलक्खणपाढए) तान् खमलक्षणपाठकान् (एवं वयासी) एवमवादीत्॥ (६९) किमित्याह(एवं खलु देवाणुप्पिया!) एवं निश्चयेन भो देवानुप्रियाः! (अज तिसला खत्तिआणी) अद्य त्रिशला
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org