________________
काचित्सुभटानां पञ्चशती परस्परमसम्बद्धा सेवानिमित्तं कस्यचिद्राज्ञः पुरो ययौ, राज्ञा च मन्त्रिवचसा परि
चमान्त्रवचसा पारखानपाठक्षार्थ एकैव शय्या प्रेषिता, ते च सर्वेऽपि अहमिन्द्रा लघुवृद्धव्यवहाररहिताः परस्परं विवदमानाः सर्वैरपि
कागमः एषा शय्या व्यापार्या इति बुद्ध्या शय्यां मध्ये मुक्त्वा तदभिमुखपादाः शयितवन्तः, प्रातश्च प्रच्छन्नमुक्तपुरुयथावयतिकरे निवेदिते.कथं एते स्थितिरहिताः परस्परं असम्बद्धाः युद्धादि करिष्यन्तीति राज्ञा निर्भस्यै निष्कासिता इति । ततस्ते स्वप्नपाठकाः (एगओ मिलित्ता) एकत्र मिलित्वा (जेणेव बाहिरिया उवट्ठाणसाला) यत्रैव बाह्या उपस्थानशाला (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थःक्षत्रियः (तेणेव उवागच्छन्ति) तत्रैवोपागच्छन्ति (उवागच्छित्ता) उपागत्य (करयलजाव अंजलिं कट्ठ) करतलाभ्यां यावत् अञ्जलिं कृत्वा (सिद्धत्थं खत्तियं) सिद्धार्थ क्षत्रियं प्रति (जएणं विजएणं वद्धाविति) जयेन विजयेन त्वं वर्धस्व इत्याशीर्वाद दत्तवन्तः, स चैवं-दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशस्वी भव, प्रज्ञावान् भव भूरिसत्त्वकरुणादानैकशौण्डो भव । भोगाढ्यो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढश्रीव कीर्तिमान् भव सदा विश्वोपजीव्यो भव ॥१॥ अत्र किरणावलिदीपिकाकाराभ्यां कोर्टिभरस्त्वं भवेति पाठो लिखितस्तत्र कोर्टिभर इति प्रयोगश्चिन्त्यः । कल्याणमस्तु शिवमस्तु धनागमोऽस्तु, दीर्घायुरस्तु सुतजन्मसमृद्धिरस्तु । वैरिक्षयो ऽस्तु नरनाथ ! सदा जयोऽस्तु, युष्मत्कुले च सततं जिनभक्तिरस्तु॥२॥ (६७)॥
Jain Education Hotel
For Private & Personel Use Only
H
oww.jainelibrary.org