SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सिंहासने उपवेशः कल्प.सबो-दितं यद्वा अस्तरजसा-निर्मलेन मृदुना-कोमलेन मसूरकेण-चाकलो गादी इति जनप्रसिद्धेन आच्छादित व्या०३ पुनः किंवि०१ (सेअवस्थपच्चुत्थयं) श्वेतेन वस्त्रेण प्रत्यवस्तृतं-उपरि आच्छादितं, पुनः किंवि०१ (सुमउअं) सुतरां मृदुकं-अतिकोमलं, पुनः किंवि० ? (अंगसुहफरिसगं) अङ्गस्य सुखः-सुखकारी स्पर्शो यस्य स तथा, ॥६१॥ अत एव (विसिट्ठ) विशिष्टं-शोभनं (तिसलाए खत्तिआणीए) त्रिशलायै क्षत्रियाण्यै तद्योग्य इत्यर्थः, ईदृशं (भहासणं रयावह ) भद्रासनं रचयति (रयावित्ता) रचयित्वा च ( कोटुंबिअपुरिसे सद्दावेइ ) कौद्धम्बिक-11 पुरुषान् शब्दयति (सद्दाविता) शब्दयित्वा च ( एवं वयासी) एवं अवादीत् ॥ ६४॥ किमित्याह| (खिल्पामेव भो देवाणुप्पिआ!) शीघ्रमेव भो देवानुप्रियाः-सेवकाः! खालक्षणपाठकान् शब्दयत, अथ 18 किंविशिष्टान खानलक्षणपाठकान् ? ( अटुंगमहानिमित्तसुत्तत्थधारए ) अष्ट अङ्गानि यत्र एवंविधं यत् महा-18 |निमित्तं-निमित्तशास्त्रं भाविपदार्थसूचकखमादिफलव्युत्पादको ग्रन्थस्तस्य सूत्रार्थों धारयन्ति येते तथा तान्, तत्र निमित्तस्य अष्ट अङ्गानि इमानि-अॉ१ खमं २ खरं ३ चैव, भौमं ४ व्यजन ५ लक्षणे ६ । उत्पाद ७. मन्तरिक्षं च ८, निमित्तं स्मृतमष्टधा ॥१॥ तत्र पुंसां दक्षिणाङ्गे, स्त्रीणां वामाने स्फुरणं सुन्दरमित्याद्यङ्ग विद्या १ खमानां उत्तममध्यमांधमविचारः खमविद्या २ दुर्गादीनां खरपरिज्ञानं स्वरविद्या ३ भौम-भूमिकसम्पादिविज्ञानं ४ व्यञ्जनं-मषीतिलकादि ५ लक्षणं-करचरणरेखादि सामुद्रिकोक्तं ६ उत्पात-उल्कापातादिः ७ अन्तरिक्ष-ग्रहाणां उदयास्तादिपरिज्ञानम् ८ पुन: किंवि०? (विविहसत्थकुसले) विविधानि यानि टटटटटटटटर Jan Education For Private Personel Use Only SHw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy