________________
सिंहासने उपवेशः
कल्प.सुबो-शामजनगृहान्निष्क्रमणे उपमां आह-धवलमहामेहनिग्गए इव) धवलमहामेघनिर्गत इव-यथा (गहगणव्या०३ दिपंतरिक्खतारागणाण मज्झे ससिव्व) ग्रहसमूहदीप्यमानऋक्षतारागणानां मध्ये वर्तमानः शशीव,
अत्र ग्रहगणऋक्षतारागणतुल्यः पूर्वोक्तः परिवारः शशितुल्यस्तु राजेंति, कीदृशो नृपः ? (पियदंसणे) प्रियं ॥६०॥
दर्शनं यस्य स तथा, यथा हि वार्दलोनिर्गतो नक्षत्रादिपरिवृतश्च शशी प्रियदर्शनो भवति तथा सोऽपि नरपतिरिति भावः, पुनः कीदृशोनृपः ? (नरवइत्ति) नरपतिः-प्रजापालकः (नरिंदे) नरेन्द्र:-नरेषु इन्द्रसमानः (नरवसहे) नरवृषभ:-धरांभारधुरन्धरत्वान्नरेषु वृषभसमानः (नरसीहे) नरसिंहो-दुस्सहपराक्रमत्वात् नरेषु सिंहसमानः, पुनः किंवि०१ ( अभहियरायतेयलच्छीए दिप्पमाणे) दीप्यमानः, कया?-अभ्यधिकराजतेजोलक्ष्म्या, एवंविधो नृपतिः ( मज्जणघराओ पडिनिक्खमइ ) मज्जनगृहात्-स्नानमन्दिरात् प्रतिनिष्कामति ॥ (६२)॥
(मजणघराओ पडिनिक्खमित्ता) लानमन्दिरात् प्रतिनिष्क्रम्य ( जेणेव बहिरिया उवट्ठाणसाला) यत्रैव बाह्या उपस्थानशाला ( तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवांगच्छित्ता) उपागत्य (सीहासणंसि पुरस्थाभिमुहे निसीअइ) सिंहासने पूर्वाभिमुखो निषीदति-उपविशति ॥ (६३)॥
(सीहासणंसि पुरत्थाभिमुहे निसीहत्ता) सिंहासने पूर्वाभिमुखो. निषद्य-उपविश्य (अप्पणो) आत्मनः सकाशात् उत्तरपुरच्छिमे दिसीभाए) ईशानकोणे दिग्भागे (अह भद्दासणाई) अष्ट भद्रासनानि, अथ
NON
॥६०॥
२८
Jain Education Intel
For Private & Personel Use Only
Jainelibrary.org