________________
श्वेतवरचामरैरुद्धूयमानैश्च शोभित इति शेषः, पुनः किंवि० ? (मंगलजयसद्दकयालोए) मङ्गलभूतो जय-1|| शब्दः कृत आलोके-दर्शने यस्य स तथा, यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किंवि०१(अणेगगणनायगत्ति) अनेके ये गणनायकाः-खखसमुदायस्वामिनः (दंडनायगत्ति) दण्डनायकाः तन्त्रपालाः स्वराष्ट्रचिन्ताकर्तारः इत्यर्थः (रायत्ति) राजानो-माण्डलिकाः (ईसरत्ति) ईश्वरा:-युवराजाः 'पाटवीकुंवर' इति लोके, अत्र किरणावलीकारेण दीपिकाकारेण च ईश्वरा युवराजान इति प्रयोगो लिखितः, स तु चिन्त्यः, अट्समासान्तागमनेन युवराजा इति प्रयोगभवनात् (तलवरत्ति) तलवरा:-तुष्टभूपालप्रदत्तपट्ट|बन्धविभूषिता राजस्थानीयाः (माडंबियत्ति) माडम्बिका-मडम्बवामिनः (कोडुबियत्ति) कौटुम्बिका:-कति-18 पयकुटुम्बखामिनः (मंतित्ति) मन्त्रिणो-राज्याधिष्ठायकाः सचिवाः (महामंतित्ति) महामन्त्रिणः त एव विशे-18 षाधिकारवन्तः (गणगत्ति) गणकाः-ज्योतिषिकाः दोवारियत्ति) दौवारिकाः-प्रतिहारा (अमञ्चत्ति)अमात्याःसहजन्मानो मन्त्रिणः (चेडत्ति) चेटा-दासाः (पीढमद्दत्ति)पीठमईका:-पीठं-आसनं मर्दयन्तीति पीठमर्दकाःआसन्नसेवकाः वयस्या इत्यर्थः (नगरत्ति) नागरा-नगरवासिनो लोका: (निगमत्ति) निगमा-वणिजः (सिट्ठित्ति) |श्रेष्ठिनो-नगरमुख्यव्यवहारिणः (सेणावइत्ति) सेनापतयः चतुरङ्गसेनाधिकारिणः (सत्थवाहत्ति)सार्थवाहा:-11 सार्थनायकाः (दूअत्ति) दूता:-अन्येषां गत्वा राजादेशनिवेदकाः(संधिवालत्ति) सन्धिपाला:-सन्धिरक्षकाः (सद्धिं संपरिवुडे ) एतैः सर्वैः साधं संपरिवृतः, ईदृशो नरपतिमंजनगृहात् प्रतिनिष्क्रामतीति योगः, अथ
१४
For Private Personal Use Only
Misow.jainelibrary.org
Jain Education UQL