SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०३ ecene seeeeeeeeeeeeeee मुकुटेन दीप्तं शिरो यस्य स तथा, पुनः किंवि०? (हारुच्छ्यसुकयरइयवच्छे) हारेण अवस्तृत-आच्छादितं मन्जनादि अत एव सुष्ठ कृतरतिकं-द्रष्टणां प्रमोददायि एवंविधं वक्षो-हृदयं यस्य स तथा, पुनः किंवि०? (मुद्दिया-1 सू. ६२ पिंगलंगुलिए) मुद्रिकाभिः पिङ्गला:-पीतवर्णा अङ्गुलयो,यस्य स तथा, पुनः किंवि०१ (पालंबपलंबमाणसुकयपडउत्तरिज्जे) प्रलम्बेन-दीर्घेण अत एव प्रलम्बमानेन ईदृशेन पटेन सुष्ठ कृतः उत्तरासङ्गो येन स तथा, पुनः किंवि०? (नाणामणिकणगरयणविमलत्ति) नानाप्रकारैर्मणिकनकरत्नैर्विमलानि-दीसिमन्ति अत एव (महरिहत्ति) महाहाणि (निउणोवचियत्ति) निपुणेन शिल्पिना उपचितानि-परिकर्मितानि (मिसिमिसिंतत्ति) देदीप्यमानानि एवंविधानि (विरइयत्ति) विरचितानि (सुसिलिट्टत्ति) सुश्लिष्टानि-सुयोजितसन्धीनि अत एव (विसिट्ठत्ति) विशिष्टानि-अन्येभ्योऽतिरमणीयानि (लट्टत्ति) लष्टानि-मनोहराणि एवंविधानि (आविद्धवीरव|लए) आविद्धानि-परिहितानि वीरवलयानि-वीरत्वगर्वसूचकानि वलयानि येन स तथा, यः कश्चिद्वीरंमन्यः |स मां विजित्य इमानि मोचयतु इतिवुद्ध्या धृतवीरवलय इत्यर्थः, उपसंहरति-- किंबहुणा) बहुना वर्णकवाक्येन किं ? (कप्परुक्खए विव अलंकियविभूसिए) कल्पवृक्ष इव अलङ्कृतविभूषितः, तत्र कल्पवृक्षः अलङ्कृतः पत्रादिभिः विभूषितश्च पुष्पादिभिः राजा तु अलङ्कृतो मुकुटादिभिः, विभूषितो वस्त्रादिभिः, ईदृशो (नरिंदे) नरेन्द्रः (सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं) कोरिंटवृक्षसम्बन्धीनि माल्यानि-पुष्पा-1 णि मालायै हितानीति व्युत्पत्तेस्तेषां दामभिः सहितेन छत्रेण ध्रियमाणेन (सेयवरचामराहिं उद्धवमाणीहिं)| २८ Jain Education ILIY For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy