________________
Reस
मज्जनादि सू.६२
शाटिका तया लूक्षितं-निर्जलीकृतं अङ्ग-शरीरं यस्य स तथा, पुनः कीदृशो राजा? (अयसुमहग्घदूसरयणसुसंवुडे) अहतं-अव्यङ्गं सुमहार्घ-बहुमूल्यं ईदृशं यत् दृष्यरत्नं- वस्त्ररत्नं तेन सुष्टु संवृतः, परिहितदूष्यरत्न इत्यर्थः, पुनः किंवि०१ (सरससुरभिगोसीसचंदणाणुलित्तगत्ते) सरसेन सुरभिणा च गोशीर्षचन्दनेन अनुलिप्तं गात्रं यस्य स तथा, पुनः किंवि०१ (सुइमालावन्नगविलेवणे ) तत्र माला-पुष्पमाला वर्णकविलेपनं च-19 मण्डनकारि कुङ्कुमादिविलेपनं तत् उभयं शुचि-पवित्रं यस्य स तथा, पुनः किंवि० ? (आविद्धमणिसुवन्ने)। आविद्धानि-परिहितानि,मणिसुवर्णानि-लक्षणया मणिसुवर्णमयानि भूषणानि येन स तथा, पुनः किंवि० ? (कप्पियहारद्धहारतिसरयत्ति) कल्पिता-विन्यस्ता ये हारादयः, तत्र हार:-अष्टादशसरिकः अर्धहारो-नवस-1 रिकस्त्रिसरिकं च प्रतीतं तथा (पालंबपलंबमाणत्ति) प्रलम्बमानःप्रालम्बो-झुम्बनकं (कडिसुत्तत्ति) कटिसूत्रं च-| कव्यामरणं एतैः कृत्वा (सुकयसोहे) सुष्ठ कृता शोभा यस्य स तथा, पुनः किंवि०? (पिणद्धगेबिजे) पिनद्धानि-परिहितानि ग्रैवेयानि-ग्रीवाभरणानि येन स तथा, पुनः किंवि०१ ( अंगुलिज्जगललियकयाभरणे) अङ्गुलीयकानि-अडल्याभरणानि ललितानि यानि कचाभरणानि केशमण्डनानि पुष्पादीनि यस्य स तथा, पुनः किंवि०१ (वरकडगतुडिअथंभिअभुए) वरैः-प्रधानः कटकैः-वलयः त्रुटिकैश्च-बाह्वाभरणैः स्तम्भितौ इव भुजौ यस्य स तथा, पुन: किंवि०१६ अहिअरुवसस्सिरीए) अथिकरूपेण सश्रीको यः स तथा, पुनः किंवि० | (कुंडलुज्जोहआणणे) कुण्डलाभ्यामुद्योतितमाननं-मुखं यस्य स तथा, पुनः किंवि०१ ( मउडदित्तसिरए)
Jain Education B
log
For Private & Personel Use Only
Naw.jainelibrary.org