SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सू. ६१ एवंविधैः पुरुषैः संवाहितः सन् अपगतपरिश्रमो जात इति योगः, अथ किंविशिष्टैः पुरुषैः? (निउणेहिं)। अट्टनशानिपुणैः-उपायविचक्षणैः, पुनः किंवि०?(पडिपुन्नपाणिपायसुकुमालकोमलतलेहिं) प्रतिपूर्णस्य पाणिपादस्य लागमादि सुकुमालकोमलानि-अत्यन्तकोमलानि तलानि येषां ते तथा तैः अत्र किरणावलीकारेण दीपिकाकारेण च प्रतिपूर्णानां पाणिपादानां इति प्रयोगो लिखितः स तु चिन्यः 'प्राणितूर्यांगाणा' मितिसूत्रेणावश्यं हैमव्याकरणमते एकवद्भावभवनात्, पुनः किंवि०? (अभंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं) अभ्यङ्गनं-तैलादिना म्रक्षणं परिमर्दनं-तस्य तैलस्य मईनं उद्वलनं-तस्य तैलस्य बहिःकर्षणं उद्वर्तनं वा, एतेषां करणे ये गुणविशेषास्तेषु निर्मातैः-विशिष्टाभ्यासवद्भिः पुनः किंवि० ? (छेएहिं ) छेकैः-अवसर ः पुनः किंवि. ?? (दक्खेहिं ) दक्षैः-त्वरितत्वरितकार्यकारिभिः, पुनः किंवि.? (पढेहिं ) प्रष्टैः-मईनकारिणां अग्रेसरैः पुनः किंवि०१ (कुसलेहिं) कुशलैः-विवेकिभिः, पुनः किंवि.? ( महाविहिं) मेधाविभि:-अपूर्वविज्ञानग्रहणसमर्थैः, पुनः किंवि.? ( जिअपरिस्समोहिं ) जितपरिश्रमैः-बहुपरिश्रमकरणेऽपि श्रममनाप्नुवद्भिः (पुरिसेहिं) एवंविधैः पुरुषैः (अद्विसुहाए) अस्थ्नां सुखकारिण्या ( मंससुहाए) मांसस्य सुखकारिण्या (तयासुहाए ) त्वचः सुखकारिण्या (रोमसुहाए) रोम्णां सुखकारिण्या (चउविहाए ) इत्येवंरूपया चतुष्पकारया (सुहपरिकम्मणाए )सुखा-सुखकारिणी परिकर्मणा-अङ्गशुश्रूषा यस्यां सा तथा एवंविधया (संवाहणाए) सम्बाधनया-विश्रामणया (संवाहिए समाणे) संवाहितः-कृतविश्रामणः सन् ( अवगयपरि-18| १४ Jain Education a l For Private & Personal Use Only HOWww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy