________________
गार्दन्यभागलक्षणं एतेषां यो रागो-रक्तत्वं तथा (बंधुजीवगत्ति) बन्धुजीवकं-पुष्पविशेषः 'बपोहरीआ फुल' नृपस्योत्थाइति लोकप्रसिद्धं (पारावयचलणनयणत्ति) पारापतस्य चरणनयनं (परहुअसुरत्तलोअणत्ति) परभृतस्य-कोकि- नं सू.६० लस्य,सुरक्ते-कोपादिना रक्तीकृते ये लोचने (जासुअणकुसुमरासित्ति) जपापुष्पस्य 'जासूद' इति लोकप्रसिद्धस्य यो राशि:-समूहस्तथा (हिंगुलनिअराइरेगरेहंतसरिसे) हिंगुलनिकरश्च प्रसिद्धः, एतेभ्यः सर्ववस्तुभ्यः अतिरेकेण राजमानः सन् सदृशः, अत्र यः अतिरेकेण राजमानः स सदृशः कथं भवतीत्याशङ्कायां रक्तत्वमात्रेण सदृशः कान्त्या तु अतिरेकेण राजमान इति वृद्धाः, अथवा रक्ताशोकप्रकाशादीनां हिङ्गुलनिकरान्तानां यो राजमानोऽतिरेक:-प्रकर्षस्तत्सदृश इति, पुनः किंविशिष्टे सूर्ये ? (कमलायरसंडविबोहए) कमलानां आकरा-उत्पत्तिस्थानानि ये पद्माइदादयस्तेषु यानि खण्डानि कमलवनानि तेषां विकाशके (उट्ठियंमि सूरे) एवंविधे अभ्युदिते सूर्ये सति, पुनः किंवि०१ (सहस्सरस्सिमि) सहस्ररश्मी, पुन: किंवि०? (दिणयरे) दिनकरे-दिनकरणशीले, पुनः किंवि०? ( तेअसा जलंते) तेजसा देदीप्यमाने ( तस्स य करपहरापरळूमि अंधयारे) तस्य च-श्रीसूर्यस्य करमहारैः-किरणाभिघातैः अन्धकारे अपराद्धे-विनाशिते सति, अथ च (बालायवकुंकुमेणं खचियव्व जीवलोए) बालातपः प्रसिद्धः स कुङ्कुममिव तेन जीवलोके-मनुष्यलोके || खचिते-व्यासे सति, कोऽर्थः ?-यथा कुकुमेन किञ्चिद्वस्तु पिञ्जरीक्रियते तथा बालातपेन जीवलोके पिञ्जरीकृते सति (सयणिज्जाओ अब्भुटेइ ) शयनीयात् अभ्युत्तिष्ठति ॥ (६०)॥
Jain Education UTILOR
For Private & Personel Use Only
Aww.jainelibrary.org