________________
Jain Educatio
लिप्सां छगणादिना, तत्तः पदत्रयस्य कर्मधारयः, (सुगंधवरपंचवण्णपुष्फोवयारकलियं ) सुगन्धानां वराणां पञ्चवर्णानां च पुष्पाणां य उपचारस्तेन कलितां (कालागुरुपवर कुंदुरुक्कतुरुक्क डज्झतधूवमघमघंतगंधुद्धूयाभिरामं) तथा दह्यमाना ये कृष्णागुरुप्रवर कुन्दुरुष्क तुरुष्कधूपास्तेषां मघमघायमानो यो गन्धस्तेन उद्धताभिरामां (सुगंधवरगंधियं ) तथा सुगन्धवराणां चूर्णादीनां गन्धो यत्र तथा तां ( गंधवहिभूयं ) गन्धद्रव्यगुटिकासमानां ( करेह ) एवंविधां उपस्थानशालां कुरुत स्वयं ( कारवेह ) अन्यैः कारयत ( करिता कारवित्ता य ) कृत्वा कारयित्वा च तत्र ( सीहासणं रयावेह रयावित्ता ) सिंहासनं रचयत रचयित्वा ( मम एयमाणन्तियं खिप्पा| मेव पचप्पिणह ) मम एतां आज्ञां शीघ्रमेव प्रत्यर्पयत ॥ ( ५८ ) ॥
(तए णं ते कोडुंबियपुरिसा) ततोऽनन्तरं ते कौटुम्बिकपुरुषाः (सिद्धत्थेणं रन्ना ) सिद्धार्थेन राज्ञा ( एवंवृत्ता समाणा ) एवं उक्ताः सन्तः ( हट्ठतुट्ठजावहिअया ) हृष्टास्तुष्टा इत्यादि पूर्ववत् हर्षपूर्ण हृदया: (जावअंजलिं कट्टु ) यावत् अञ्जलिं कृत्वा ( एवं सामित्ति) हे स्वामिन् ! यथा यूयं आदिशध तत्तथैव अस्माभिरवश्यं कर्त्तव्यं इत्युक्त्वा ( आणाए विणणं वयणं पडिसुणंति ) आज्ञया विनयेन वचनं प्रतिशृण्वन्ति ( पडिणित्ता) प्रतिश्रुत्य च ( सिद्धत्थस्स खत्तियस्स अंतिआओ ) सिद्धार्थस्य क्षत्रियस्य पार्श्वात् (पडिनिक्खमंति) बहिस्तान्निष्क्रामन्ति ( पडिनिक्खमित्ता) तथा कृत्वा ( जेणेव बहिरिआ उवट्ठाणसाला ) यत्रैव बाह्या उपस्थानशाला ( तेणेव उवागच्छंति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता ) उपागत्य ( खिप्पामेव ) शीघ्रं एव
ational
For Private & Personal Use Only
सिंहासनरचनादि
देश: सू.
५८
१०
१४
www.jainelibrary.org