SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- न्या०३ ॥५४॥ पादप:-वृक्षः (कुलविवद्धणकरं) कुलस्य विवर्धनं-सर्वतो वृद्धिस्तस्य कर-कारकं (सुकुमालपाणिपायं)शौर्यादिवसुकुमालं पाणिपादं यस्य स तथा तं (अहीणपडिपुन्नपचिंदियसरीरं) लक्षणोपेतानि तथा स्वरूपेणापि पूर्णानिर्णनं सू.५३ एवंविधानि पञ्चेन्द्रियाणि यत्र एवंविधं शरीरं यस्य स तथा तं (लक्खणवंजणगुणोववेयं) लक्षणानां व्यञ्जनानां च ये गुणाः तैः उपपेतं-सहितं ( माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंग) मानेन उन्मानेन प्रमाणेन । च प्रतिपूर्णानि तथा सुजातानि-शोभायुक्तानि एवंविधानि सर्वाणि अङ्गानि यन्न एवंविधं सुन्दरं अझं-शरीरं यस्य स तथा तं (ससिसोमागारं) चन्द्रवत् सौम्याकारं (कंतं ) वल्लभं (पियदंसणं) प्रियं दर्शनं यस्य स तथा तं (सुरूपं) शोभनरूपं (दारयं) एवंभूतं पुत्रं (पयाहिसि ) प्रजनिष्यसि ॥ (५२)॥ (सेविय णं दारए ) सोऽपि च बालकः ( उम्मुक्कबालभावे) उन्मुक्तो बालभावो येन सः (बिनायपरिणयमित्ते) विज्ञातं-विज्ञानं तत् परिणतमात्रं यस्य स तथा, परिपक्वविज्ञान इत्यर्थः (जुब्वणमणुपत्ते ) यौवनं | अनुप्राप्तः सन् (सूरे) शूरः-दाने अङ्गीकृतनिर्वाहे च.समर्थ इत्यर्थः (वीरे) वीरः संग्रामे समर्थः (विकते) |विक्रान्तः-परमण्डलाक्रमणसमर्थः पराक्रमवानित्यर्थः (विच्छिपणविउलबलवाहणे ) विस्तीर्णादपि विपुले २५ अतिविस्तीर्णे इत्यर्थः एवंविधे बलवाहने यस्य स तथा, तत्र बलं-सेना वाहनं-गवादिकं ( रजवई राया भवि-1 ॥५४॥ स्सइ) राज्यस्य खामी एवंविधो राजा भविष्यति ।। (५३)॥ (तं उराला णं जाव सुमिणा दिहा) तस्मात् प्रशस्ताः यावत् त्वया स्वमाः दृष्टाः (दुचंपि तचंपि अणुवू- २८ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy