________________
स्तेषां लाभः हे देवानुप्रिये ! (पुत्तलाभो देवाणुप्पिए) पुत्रस्य लाभः हे देवानुप्रिये ! (सुक्खलामोश भाविपुत्र देवाणुप्पिए) सौख्यं-मनसो निवृत्तिस्तस्य लाभ: हे देवानुप्रिये ! (रजलाभो देवाणुप्पिए) राज्य- वर्णनं मू. स्वाम्यमात्यमुहृत्कोशराष्ट्रदुर्गसैन्यलक्षणं सप्ताङ्गं तस्य लाभो भविष्यतीति ॥ अथ सामान्येन फलान्युक्त्वा | विशेषतो मुख्यं फलमाह-(एवं खलु तुमे देवाणुप्पिए!) अनेन प्रकारेण निश्चयेन त्वं हे देवानुप्रिये ! हे 8 त्रिशले ! ( नवण्हं मासाणं ) नवसु मासेषु ( बहुपडिपुन्नाणं ) बहुप्रतिपूर्णेषु सत्सु ( अट्ठमाण राईदियाणं) अर्धाष्टमरात्रिदिवसाधिकेषु (विइक्वंताणं) व्यतिक्रान्तेषु सुरूपं दारकं-पुत्रं प्रजनिष्यसीति सम्बन्धः, किंविशिष्टं ?-(अम्हं कुलके) अस्माकं कुले केतुरिव केतु:-चिन्हं ध्वजस्तत्सदृशं अत्यद्भुतं इत्यर्थः (अम्हं कुलदीवं) अस्माकं कुले दीप इव दीपस्तं प्रकाशकं मङ्गलकारकं च ( कुलपब्वयं) कुले पर्वत इव पर्वतः अपराभवनीयः स्थिरश्च, कुलस्य आधार इत्यर्थः, (कुलवडिंसयं) कुले अवतंसक इव-मुकुट इव || यस्तं, शोभाकरत्वात् , अत एव (कुलतिलयं) कुलतिलकं मस्तकधार्यत्वात् (कुलकित्तिकरं) कुलकीर्तिकरं शुभाचारित्वात् (कुलवित्तिकरं) कुलस्य वृत्तिः-निर्वाहस्तस्य कारक (कुलदिणयरं) प्रकाशकत्वात् । कुले दिनकरसमानं (कुलआधारं ) कुलाधार:-पृथ्वीवत् कुलस्याधारं (कुलनंदिकर) कुलस्य नन्दिः-वृद्धिस्तस्याः कर-कारकं (कुलजसकरं) कुलस्य यश:-सर्वदिग्गामिनी ख्यातिः तस्य कारकं, 'एकदिग्मामिनी कीर्तिः, सर्वदिग्गामुकं यशः' इति वचनात् (कुलपायवं) छायाकरत्वात् आश्रयणीयत्वाच कुले पादपसमानं,
Jain Education
For Private
Personel Use Only
Nirw.jainelibrary.org