SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ३ ॥ ५२ ॥ Jain Education In तस्य वल्लभाभिः पुनः किंवि० ? - ( कंताहिं ) कान्ताभिः सर्वदा वाञ्छिताभिः अत एव ( पियाहिं ) प्रियाभि:- अद्वेष्याभिः पुनः किंवि० ? - ( मणुष्णाहिं ) मनोज्ञाभि: - मनो विनोदकारिणीभिः, अत एव (मणामाहिं) मनोऽमाभिः - मनसा अम्यन्ते - पुनः पुनर्गम्यन्ते न तु कदापि विस्मार्यन्ते एवंविधाभिः पुनः किंवि० ? - उरालाहिं ) उदाराभिः - सुन्दरध्वनिवर्णसंयुताभिः पुनः किंवि० ? ( कल्लाणाहिं ) कल्याणानि - समृद्धयस्तत्कारिणीभिः पुनः किंवि० ? - ( सिवाहिं ) शिवाभिः - उपद्रवहरीभिः तथाविधवर्णसंयुक्तत्वात्, अत एव ( धन्नाहिं ) धन्याभिः - धनप्रापिकाभिः पुनः किंवि० ? - ( मंगल्लाहिं ) मङ्गलकरणे प्रवीणाभिः पुनः किंवि० १ ( सस्सिरीआहिं ) सश्रीकाभिः - अलङ्कारविराजिताभिः पुनः किंवि० ? - ( हिअयगमणिजाहिं ) कोमलतया सुबोधतया च हृदयङ्गमाभिः पुनः किंवि० ? - ( हिअयपल्हायणिज्जाहिं ) हृदयप्रह्लादनीयाभिः - हृद्गतशोकाद्युच्छेदिकाभिः, पुनः किंवि० ? - ( मिअमहुरमंजुलाहिं ) मिताः - अल्पशब्दाः बह्नर्थाच मधुराः - श्रोत्रसुखकारिण्यः, मञ्जुलाः- सुललितवर्णमनोहराः ततः पदत्रयस्य कर्मधारये मितमधुरमञ्जुलाभिरिति ( गिराहिं ) एवंविधाभिः वाणीभिः (संलवमाणी २ ) संलपन्ती - वदन्ती ( पडिबोहेइ ) जागरयति ॥ ( ४८ ) ॥ (तए णं ) ततोऽनन्तरं जागरणानन्तरं ( सा तिसला खत्तिआणी ) सा त्रिशला क्षत्रियाणी ( सिद्धत्थेणं रन्ना) सिद्धार्थेन राज्ञा ( अन्भणुण्णाया समाणी ) अभ्यनुज्ञाता सती ( नाणामणिकणगरयणभत्तिचित्तंसि ) नानामणिकनकरत्नानां भक्तिभिः रचनाभिः चित्रे - आश्चर्यकारिणि ( भद्दासणंसि निसीयइ ) भद्रासने For Private & Personal Use Only श्री सिद्धार्थजागरणं सू. ४८ २० २५ ॥ ५२ ॥ २५ jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy