________________
|विमानखमः सू.४४
आवर्तपतितत्वेन अन्यत्र निर्गमावकाशाभावात् ऊर्ध्व उच्छलत् (पच्चोनियत्तत्ति)प्रत्यवनिवृत्तं-ऊध्र्व उच्छल्य तत्रैव पुनः पतितं, अत एव (भममाणलोलसलिलं ) तत्र आवर्ते एव भ्रमत् तत एव च लोलं-खभावतश्चञ्चलं, एवंविधं सलिलं-पानीयं यत्र स तथा तं, (पिच्छइ) प्रेक्षते इति क्रियापदं (खीरोअसायरं)क्षीरोदसागरं इदं विशेष्यं (सरयरयणिकरसोमवयणा) शरत्कालीनः रजनीकर:-चन्द्रस्तद्वत् सौम्यं वदनं यस्याः , एवंविधा त्रिशला ११॥ (४३)॥ | (तओ पुणो)ततः सा त्रिशला द्वादशे स्वप्ने विमानवरपुण्डरीकं प्रेक्षते, अथ किंविशिष्टं विमानवरपुंडशरीकं ?-(तरुणसूरमंडलसमप्पहं ) तरुणो-नूतनो यः सूर्यस्तस्य मण्डलं-बिम्बं तेन समा प्रभा-कांतिर्यस्य
तत्तथा, पुनः किंवि०? (दिप्पमाणसोहं ) दीप्यमाना शोभा यस्य तत्तथा, पुनः किंवि०१ ( उत्तमकंचणमहामणिसमूहपवरतेअअट्टसहस्सत्ति) उत्तमैः काञ्चनमहामणिसमूहै:-सुवर्णरत्नप्रकरैः प्रवरा ये अष्टाधिकसहस्रसंख्याःतेका:-स्तम्भाःतैः (दिपंतनहपईवं ) दीप्यमानं सत् नभ-आकाशं प्रदीपयति यत् तत् तथा, पुनः किंवि०१-(कणगपयरलंबमाणमुत्तासमुज्जलंति) कनकमतरेषु-सुवर्णपत्रेषु लम्बमानाभिभुक्ताभिः समुज्ज्वलं-प्राबल्येन दीप्तिमत्, पुनः किंवि०१(जलंतदिव्वदामंति)ज्वलन्ति-दीप्यमानानि देवसम्बन्धीनि अर्थाल्लम्बितानि दामानि-पुष्पमाल्यानि यत्र तत्तथा, पुनः किंवि०१-(इहामिगउसभतुरगत्ति) इहामृगा-वृका 'वरगडा जीव इति लोके' ऋषभा-वृषभाः तुरगा-अश्वाः (नरमगरविहगत्ति) नरा-मनुष्याः मकरा विहगा:
१४
Jain Education
a
l
For Private & Personel Use Only
Silww.jainelibrary.org