________________
SASTRO
माणसलिलं) शकुनिगणा:-पक्षिसमूहास्तेषां मिथुनैः-द्वन्द्वैः सेव्यमानं सलिलं यस्य तत् तथा, पुनः किंवि०?
पद्मसरःख(पमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं) पद्मिन्यः-कमलिन्यस्तासां पत्राणि तत्र उपलग्ना ये जलबिन्दुनि
मासू.४२ चियास्तश्चित्रं-मण्डितमिव, इन्द्रनीलरत्नमयानीव पद्मिनीपत्राणि मुक्ताफलानुकारिभिर्जलबिन्दुभिरतीव क्षीरोदसा
शोभन्ते, तैश्च पत्रैस्तत् सरः कृतचित्रं इव भातीति भावः, (पिच्छइ ) प्रेक्षते इति क्रियापदं (सा) सा गरःसू.४३ त्रिशला, पुनः किंवि०-(हिअयनयणकंतं) हृदयनयनयोः कान्तं-वल्लभं (पउमसरं नाम सरं) पद्मसर इति नाम्ना सर:-सरोवरं, इदं विशेष्यं, किंवि०१-(सररुहाभिरामं) सरस्सु अर्ह-पूज्यं अत एव अभिरामरमणीयम् १०॥ (४२)॥
(तओ पुणो) ततः पुनरेकादशे खमे शरद्रजनिकरसौम्यवदना सा त्रिशला क्षीरोदसागरं पश्यति, अथ लाकिंविशिष्टं क्षीरोदसागरं ?-(चंद किरणरासित्ति) चन्द्रस्य किरणराशि:-किरणसमूहस्तेन (सरिससिरिवच्छ-16
सोई) सदृशा श्रीः-शोभा यस्याः एवंविधा वक्ष शोभा यस्य स तथा तं, बक्षाशब्देन हि हृदयं उच्यते, तत्तु प्राणिनो भवति न तु समुद्स्य, ततो हृदयशब्देनात्र मध्यभागः प्रोच्यते इति, ततोऽत्युज्ज्वलो मध्य-II भागो यस्येति ज्ञेयं, पुनः किंवि०१-(चउग्गमणपवद्धमाणजलसंचयं) चतुर्यु गमनेषु-दिग्मार्गेषु प्रकर्षण वर्धमानो जलसञ्चयो-जलसमूहो यस्य स तथा तं, चतसृष्वपि दिक्षु तत्र अगाध एव जलप्रवाहोऽस्तीति भावः, पुनः किंवि०?-(चवलचंचलुचायप्पमाणकल्लोललोलंततोयं ) चपलचञ्चला-चपलेभ्योऽपि चपला
कल्प. सु.
Jain Education International
For Private Personel Use Only
www.jainelibrary.org