________________
कल्प.सुबो- व्या०३
४२
॥४८
भिमानत्वं एव स्यात् न तामिति, पुनः कि०चित्त येषां ते प्रमुदितान्तर विशेषगणा
(परिहत्थगत्ति) परिपूर्ण-सर्वतो व्याप्त इत्यर्थः, तथा (मच्छपरिभुजमाणजलसंचयं) मत्स्यैः परिभुज्य-१० पद्मसरः |मानो-व्याप्रियमाणो जलसञ्चयो यस्य तत्तथा, ततः कर्मधारयः, पुन: किंवि०१-(जलंतमिव) ज्वल-श खनः म. दिव-देदीप्यमानं इव, केन ?-(कमलत्ति ) कमलानि-सूर्यविकाशीनि अम्बुजानि (कुवलयत्ति) कुव. लयानि च-चन्द्रविकाशीनि कमलानि (उप्पलत्ति) उत्पलानि-रक्तकमलानि (तामरसत्ति) तामरसानिमहापद्मानि (पुंडरीयत्ति) पुंडरीकानि-उज्ज्वलकमलानि, एतेषां नानाजातीयकमलानां यः (उरु) उरु:-विस्तीणः (सप्पमाणत्ति) सर्पन्-प्रसरन् , एवंविधो यः (सिरिसमुदएणं) श्रीसमुदय:-शोभासमूहस्तेन, कमलानां शोभाप्रकरण हि शोभमानत्वं एव स्यात् न तु सूर्यबिम्बादिवद्देदीप्यमानत्वं अत उत्प्रेक्ष्यते-एतेषां विविधकमलानां शोभाप्राग्भारेण ज्वलदिव-देदीप्यमानमिवेति, पुनः किं०१-(रमणिजरूबसोहं) रमणीया-मनोरमा रूपशोभा यस्य तत्तथा, पुनः किंवि०१-(पमुइअंत) प्रमुदितं अन्तः-चित्तं येषांते प्रमुदितान्तरः एवंविधा ये (भमरगणत्ति) भ्रमरगणाः (मत्तमहअरिंगणुकरोलिजमाणकमलं) मत्तमधुकरीगणाश्च-भ्रमरजातिविशेषगणास्तेषां उत्करा:-समूहाः, भ्रमरमधुकरीणां बहूनि वृन्दानि इत्यर्थः, तैः अवलिह्यमानानि-आस्वायमानानि कमलानि यत्र तत्तथा,पुनः किंवि०१-(कार्यबगबलाहयचक्कत्ति)कादम्बा:-कलहंसाः बलाहका-बलाकाः चक्रा:- ॥४८॥ चक्रवाकाः (कलहंससारसत्ति) कला-मधुरशन्दा ये हंसाः कलहंसा राजहंसा इत्यर्थः सारसा-दीघेजानुका जीवविशेषाः इत्यादयो ये (गबिअत्ति) गर्विताः-तादृस्थानप्राप्त्याऽभिमानिनो ये (सउणगणमिहुणसेविज-13
Jain Education Intem
For Private & Personel Use Only
www.jainelibrary.org