SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ क (तओ पुणो) ततः पुनः सा त्रिशला अष्टमे खमे ध्वजं पश्यति, किंविशिष्टं ध्वज?-(जचकणगलद्विपाहा ट्ठि) जात्यं-उत्तमजातीयं यत् कनक-सुवर्ण.तस्य या यष्टिस्तत्र प्रतिष्ठितं, सुवर्णमयदण्डशिखरे स्थितं इत्य- मास १० र्थः, पुनः किंवि०?-(समूहनीलरत्तपीअसुकिल्लत्ति) समूहीभूतानि बहूनीत्यर्थः नीलरक्तपीतशुक्लानि कृष्णनीलयोरैक्यात् पञ्चवर्णमनोहराणीत्यर्थः (सुकुमालुल्लसिअत्ति) सुकुमालानि उल्लसन्ति-वातेन लहलहायमानानि इत्यर्थः एवंविधानि यानि (मोरपिच्छकयमुद्धयं) मयूरपिच्छानि तैः कृता मूर्धजा इव-केशा इव यस्य स तथा तं, अयमर्थः-यथा मनुष्यशिरसि वेणिर्भवति तथा तस्य ध्वजस्य बेणिस्थाने मयूरपिच्छसमूहः स्थापितोऽ स्तीति (धयं) ध्वजं इदं विशेष्यं, पुनः किंवि०१ ( अहिअसस्सिरीअं) अधिकसश्रीकं-अतिशोभितं इत्यर्थः,४॥ पुनः किंवि०१-एवंविधेन सिंहेन राजमानं इति विशेषणयोजना, अथ कीदृशेन सिंहेन ?(फलिअसंखंकत्ति) स्फटिकं-रत्नविशेषः शङ्ख:-प्रसिद्धः अङ्कोऽपि-रत्नविशेषः (कुंददगरयत्ति) कुन्दस्य-धवलपुष्पविशेषस्य माल्यं । दकरजांसि-जलकणाः (रययकलसत्ति) रजतकलशो-रूप्यघटः (पंडुरेण) उक्तसर्ववस्तुवत् उज्ज्वलवर्णेन, ( मत्थयत्थेण ) मस्तकस्थितेन चित्रतया ध्वजशिरसि आलेखितेनेत्यर्थः ( सीहेण ) सिंहेन इति। विशेष्यं, पुनः कीदृशेन सिंहेन ?-(रायमाणेण) राजमानेन सुन्दरत्वात् शोभमानेनेत्यर्थः (रायमाणं) राजमानं इति तु योजितं, पुनः कीदृशेन सिंहेन ?-(भित्तुं) भेत्तुं-द्विधाकर्तु, किं ?-(गगणतलमंडलं) आकाशतलमण्डलं (चेव) उत्प्रेक्षायां (बवसिएणं) सोद्यमेनेव, अयमर्थः-ध्वजस्तावद्वायुतरङ्गेण कम्पते, कम्पमाने च ध्वजे सिंहोऽपि १४ Jain Educatio n For Private & Personal Use Only ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy