________________
कल्प.सुबोव्या०३ ॥४६॥
तत्वात् , एवंविधाये (दुप्पयारप्पमद्दणं) दुष्प्रचाराः चौरादयोऽन्यायकारिणस्तान् प्रमईयति यस्तं, अन्यायकारि-12 सूर्यस्वनः प्रचारनिवारकं इत्यर्थः, पुनः किंवि०१-(सीअवेगमहणं) शीतवेगमथनं, आतपेन शीतवेगनिवारणात्, (पि- सू. ३९ च्छइ) प्रेक्षते इति क्रियापदं प्राग्योजितं, पुनः किंवि०१-(मेरुगिरिसययपरिवयं) मेरुगिरेः सततं परिवर्तक | मेरं आश्रित्य प्रदक्षिणया भ्रमन्तं इतियावत्, पुनः किंवि०१-(विसालं) विशालं-विस्तीर्णमण्डलं (सूरं) सूर्य इत्यपि विशेष्यं योजितं, पुनः किंवि०?-(रस्सीसहस्सपयलिअत्ति) रश्मिसहस्रेण-किरणदशशत्या कृत्वा प्रदलिता-प्रस्फोटिता (दित्तसोहं ) दीप्तानां-चन्द्रतारादीनां शोभा येन स तथा तं, येन स्वकिरणैः सर्वेषां, अपि प्रभा विलुप्ताऽस्तीति भावः, अत्र सहस्रकिरणाभिधानं तु लोकप्रसिद्धत्वात्, अन्यथा कालविशेष अधिका अपि तस्य किरणा भवन्ति, तथा चोक्तं लौकिकशास्त्रेषु-'ऋतुभेदात्पुनस्तस्यातिरिच्यन्तेऽपि रश्मयः। शतानि द्वादश १२०० मधौ, त्रयोदश १३०० तु माधवे ॥१॥चतुर्दश १४०० पुनज्येष्ठे, नभोनभस्ययोस्तथा १४००-१४००। पंचदशैव १५०० त्वापाढे, षोडशैव १६०० तथाऽऽश्विने ॥२॥ कार्तिके त्वेकादश च ११००, शतान्येवं ११०० तपस्यपि । मार्गे च दश सार्धानि १०५०, शतान्येवं १०५० च फाल्गुने ॥ ३॥ पौष एव परं मासि, सहस्रं १००० किरणा रवेः ७॥ (३९)॥
चैत्र | वैशाख | ज्येष्ठे | आषाढे | श्रावणे | भाद्रपदे आश्विने आर्तिके मार्गे । पौषे । माघे फाल्गुने ॥४६॥ १२०० १३००।१४०० १५००१४०० १४०० १६००।११०० १०५० १०००।११००१०५० ..
२८
Jain Education
For PrivatesPersonal use Only .
aw.jainelibrary.org