SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ रिप्फुड)तमःपटलं-अन्धकारसमूहस्तस्य परिस्फोटक-नाशकं इत्यर्थः (चेव) निश्चयेन पुनः किंवि०१-ते-15 सूर्यखामः असा पजलतरूवं) तेजसैव प्रज्ज्वलत्-जाज्वल्यमानं रूपं यस्य स तथा तं, स्वभावतस्तु सूर्यबिम्बवर्तिनो सू. ३९ बादरपृथ्वीकायिकाः शीतला एव, किन्वोतपनामकर्मोद्यात्तेजसैव एते जनं व्याकुलीकुर्वन्तीति ज्ञेयं, पुनः किंवि०-(रत्तासोगत्ति) रक्ताशोकः-अशोकवृक्षविशेषः (पगासकिंसुअत्ति) प्रकाशकिंशुका-पुष्पितपलाशः (सुअमुहगुंजद्धत्ति) शुकमुखं गुञ्जाधं च प्रसिद्धं (रागसरिसं) एतेषां वस्तूनां यो रागो-रक्तत्वं तेन सदृशं, पूर्वोक्तवस्तुवत् रक्तवर्णं इत्यर्थः, पुनः किंवि०१-(कमलवणालंकरणं) कमलवनानां अलङ्करणं-शोभाकारक विकाशकं इतियावत्, विकसितानि हि तानि अलकृतानीव विभान्ति, पुनः किंवि०१-(अंकणं जोइसस्स) ज्योतिषस्य-ज्योतिश्चक्रस्य अङ्कनं-मेषादिराशिसंक्रमणादिना लक्षणज्ञापकं, पुनः किंवि० -( अंबरतलपईवं) अम्बरतले प्रदीपं-आकाशतलप्रकाशकं, पुन: किंवि०१-(हिमपडलगलग्गहं) हिमपटलस्य-हिमसमूहस्य, गलग्रह-गलहस्तदायकं, हिमस्फोटकमित्यर्थः, पुनः किंवि०?-(गहगणोरुनायगं) ग्रहगणस्य-ग्रहसमूहस्य उरु:-महान् नायको यः स तथा तं, पुनः किंवि०?-( रत्तिविणासं) रात्रिविनाशं-रात्रिविनाशकारणं इत्यर्थः पुनः किंवि०१-( उद्यत्थमणेसु मुहुत्तं सुहदसणं) उदयास्तसमययोः-उदयवेलायां अस्तवेलायां च मुहूर्त यावत् सुखदर्शनं-सुखेन अवलोकनीयं इत्यर्थः, (दुन्निरिक्खरूवं) अन्यस्मिन् काले दुर्निरीक्ष्यरूपं-सम्मुखं विलोकयितुं न शक्यते इत्यर्थः, पुनः किंवि?-(रत्तिमुद्धंतत्ति) रात्री उद्धता:-स्वेच्छाचारिणः,मकारोऽत्र प्राकृ 9999998890882908 Jain Educaton Intematona For Private Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy