SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कल्प, सुबो व्या० २ ॥ ४१ ॥ Jain Education लाक्षादिना रञ्जिता इव (मंसलउवचिअत्ति) मांसयुक्ताः तत एव उपचिताः - पुष्टाः (तणुतंबणिद्धनहं) तनव:सूक्ष्माः न तु स्थूलाः, ताम्रा - अरुणाः, स्निग्धाः - अरूक्षा, नखा यस्याः सा तथा तां पुनः किंवि० ? ( कमलपलाससुकुमार्लेकर चरणं) कमलस्य पलाशानि - पत्राणि तद्वत् सुकुमालं करचरणं यस्याः सा तथा तां (कोमलवरंगुलिं ) कोमला अत एव वराः - श्रेष्ठाः अङ्गुलयो यस्याः सा तथा तां, ततो विशेषणसमासः, पुनः किंवि० १ (कुरुविंदावत्तत्ति) कुरुविन्दावर्त - आवर्त्तविशेष आभरणविशेषो वा तेन शोभिते (वहाणुपुवत्ति ) वृत्तानुपूर्वे, कोऽर्थः - पूर्व बहुस्थूले ततः स्तोकं स्तोकं स्थूले करिकरवत् (जंघ ) ईदृशे जङ्घे यस्याः सा तथा तां, पुनः किंवि० १ ( निगूढजाणुं ) निगूढे-गुप्ते जानुनी यस्याः सा तथा तां, पुनः किंवि० ? ( गयवरकरसरिसपीवरोरुं ) गजवरोगजेन्द्रस्तस्य कर:- गुण्डा तत्सदृशे पीवरे- पुष्टे उरू यस्याः सा तथा तां, उरुशब्देन लोके 'साथल' इत्युच्यते, पुनः किंवि० ? ( चामीकररइ अमेहलाजुत्तं ) सुवर्णरचिता-सुवर्णमयी इत्यर्थः एवंविधा या मेखला तथा युक्तं, अत एव ( कंतविच्छिन्नसोणिचकं ) मनोहरं विस्तीर्ण श्रोणिचक्रं - कटितटं यस्याः सा तथा तां पुनः किंवि० १ जच्चंजणत्ति ) जात्याञ्जनं-मर्दितं तैलादिना अञ्जनं (भमरजलयपयरत्ति) भ्रमराणां प्रसिद्धानां जलदानां चमेघानां यः प्रकरः- समूहः तत्समानवर्णतया जात्यानभ्रमरजलदप्रकर इव ( उज्जुअसमसंहिअत्ति ) ऋजुकाप्रध्वरा अत एव समा-अविष्मा संहिता - निरन्तरा (तणुअआइज्जलडहत्ति ) तनुका - सूक्ष्मा, आदेया- सुभगा, लटभा - विलास मनोहरा (सुकुमालमउअत्ति) सुकुमालेभ्यः- शिरीषपुष्पादिवस्तुभ्योऽपि मृदुका तत एव ( रम For Private & Personal Use Only श्रीदेवीव र्णनं सू. ३६ २० २५ ॥ ४१॥ २८ v.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy