SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ वलयपरि वारवर्णनं काराणि पूर्वोक्तमानादर्धमानोचत्वदीर्घत्वपृथुत्वानि अष्टोत्तरशतकमलानि, एवं सर्वेष्वपि वलयेषु क्रमेणार्धाधमानत्वं ज्ञेयं, इति प्रथमं वलयम् , द्वितीयवलये वायव्येशानोत्तरदिक्षु चतुःसहस्रसामानिकदेवानां चतुःसहस्री कमलानां, पूर्वदिशि चत्वारि महत्तराकमलानि, आग्नेय्यां गुरुस्थानीयाभ्यन्तरपर्षद्देवानां अष्टसहस्रकमलानि, दक्षिणदिशि मित्रस्थानीयमध्यमपर्षदेवानां दशसहस्रकमलानि, नैर्ऋत्यां किङ्करस्थानीयबाह्यपर्षद्देवानां द्वादशसहस्रकमलानि, पश्चिमायां च हस्ति १ तुरङ्गम २ रथ ३ पदाति ४ महिष ५ गन्धर्व ६ नाट्य ७ रूपसप्तकटकनायकानां सप्त कमलानि, इति द्वितीयं वलयम्, ततस्तृतीये वलये तावतां अङ्गरक्षकदेवानां षोडशसहस्रकमलानि, इति तृतीयम् वलयं, अथ चतुर्थे वलये अभ्यन्तराभियोगिकदेवानां द्वात्रिंशल्लक्षकमलानि, पञ्चमे वलये मध्यमाभियोगिकदेवानां चत्वारिंशल्लक्षकमलानि, षष्ठे वलये बाह्याभियोगिकदेवानां अष्टचत्वारिंशल्ल-18 क्षकमलानि, सर्वसंख्यया च मूलकमलेन सह एका कोटिविशतिर्लक्षाः पश्चाशत् सहस्राः शतमेकं विंशतिश्च १२०५०१२० कमलानामिति । अथ एवंविधं यत्कमललक्षणं स्थानं तत्र स्थितां, पुनः किंवि०१ (पसत्थरूवं) प्रशस्तरूपां-मनोहररूपां इत्यर्थः, पुनः किंवि०? (सुपइटिअत्ति) सुप्रतिष्ठितौ-सम्यक्तया स्थापितौ यौ(कणगमयकुम्मत्ति) कनकमयकच्छपौ तयोः (सरिसोवमाणचलणं) सदृशं-युक्तं उपमानं ययोः एवंविधौ चरणौ | यस्याः सा तथा तां, पुनः किंवि०१ (अच्चुन्नयत्ति) अत्युन्नतं तथा (पीणत्ति) पीनं-पुष्टं यत् अङ्गुष्ठादि अङ्गं तत्र स्थिताः (रइअ) रञ्जिता इव, अयमर्थ:-श्रीदेव्याः स्वयमेव नखास्तथा रक्ताः सन्ति यथा उत्प्रेक्ष्यन्ते Jain Education Boa For Private & Personel Use Only I ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy