________________
लक्ष्मयभिषेकवर्णनं
कल्प.सुबो-नहं गाढं-अत्यन्तं तीक्ष्णानि अग्राणि येषां एवंविधा नखा यस्य स तथा तं (सीहं ) केसरिणं इति विशेष्य, व्या०२पुनः किंवि० ? (वयणसिरित्ति) वदनस्य श्रीः-शोभा तदर्थं (पल्लवपत्तत्ति) पल्लववत् प्रसारिता (चारुजीह) मनो-18
हरा जिह्वा येन स तथा तं ३॥ (३५)॥ ॥४०॥
| तओ पुणो) ततः पुन:-सिंहदर्शनानन्तरं (पुन्नचंदवयणा) पूर्णचन्द्रवदना त्रिशला भगवतीं श्रियं-श्रीदेवतां पश्यतीति योजना, अथ किंविशिष्टां तां? (उच्चागयठाणलहसंठिअं) उच्चो योगः-पर्वतो हिमवान् तत्र जातं उच्चागज एवंविधं लष्टं-प्रधानं यत् स्थानं-कमललक्षणं तत्र संस्थितां, तचैवं-एकशतयोजनो१००च्चो द्वादशकलाधिकद्विपञ्चाशद्योजनोत्तरयोजनसहस्र १०५२१२ पृथुलः वर्णमयो हिमवन्नामा पर्वतः, तदुपरि च दशयोजनावगाढः पञ्चशतयोजनपृथुलः सहस्र१०००योजनदी| वज्रमयतलभागः पद्माइदनामा हृदः, तस्य मध्यभागे जलात् क्रोशद्वयोचं एकयोजनपृथुलं,एकयोजनदीर्घ, नीलरत्नमयदशयोजननालं वज्रमयमूलं रिष्ठरत्नमयकन्दं रक्तकनकमयबाह्यपत्रं कनकमयमध्यपत्रं एवंविधं एक कमलं, तस्मिन् कमले च क्रोशद्रयपृथुला, क्रोशद्वयदीर्घा, एकक्रोशोचा रक्तसुवर्णमयकेसराविराजिता एवंविधा कनकमयी कर्णिका, तस्या मध्ये च अर्धक्रोशपृथुलं एकक्रोशदीर्घ किंचिदूनैकक्रोशोचं,श्रीदेवीभवनं, तस्य च त्रीणि द्वाराणि पश्चशतधनुरुच्चानि, तदधमानपृथुलानि पूर्वदक्षिणोत्तरदिस्थितानि, अथ तस्य भवनस्य मध्यभागे सार्धशतद्वयधनुर्मिता रत्नमयी वेदिका, तदुपरि च श्रीदेवीयोग्या शय्या, अथ तस्मान्मुख्यकमलापरितश्च श्रीदेव्या आभरणभृतानि वलया
॥४०॥
in Education
For Private & Personel Use Only
R
ainelibrary.org