________________
|ततो देवगतेरसंख्येयगुणं । ततो निरयगतेरसंख्येयगुणं । तथा जातौ सर्वस्तोकं चतुर्णा दीजियादिजातिनाम्नां । तत | एकेन्धियजातेर्विशेषाधिकं । तथा शरीरनाम्नि सर्वस्तोकमौदारिकशरीरनाम्नः । ततस्तैजसशरीरनाम्नो विशेषाधिकं ।
ततः कार्मणशरीरनाम्नो विशेषाधिकं । ततो वैक्रियशरीरनाम्नोऽसंख्येयगुणांततोऽप्याहारकशरीरनाम्नोऽसंख्येयगुणं । एवं संघातननाम्नोऽपि वाच्यं । अंगोपांगनाम्नि सर्वस्तो जघन्यपदे प्रदेशाग्रमौदारिकांगोपांगनाम्नः। ततो वैक्रियांगोपांगनाम्नोऽ|संख्येयगुण।ततोऽप्याहारकांगोपांगनाम्नोऽसंख्येयगुणं । तथा सर्वस्तो जघन्यपदे नरकगतिदेवगत्यानुपूर्योः प्रदेशाग्रं। ततो मनुजगत्यानुपूर्व्या विशेषाधिक। ततोऽपि तिर्यग्गत्यानुपूर्व्या विशेषाधिकं । तथा सर्वस्तोकं त्रसनाम्नः । ततो विशेषाधिक स्थावरनाम्नः। एवं बादरसूक्ष्मयोः पर्याप्तापर्याप्तयोः प्रत्येकसाधारणयोश्च । शेषाणां तु नामप्रकृतीनामरूपबहुत्वं न विद्यते। तथा सातासातवेदनीययोरुच्चैर्गोत्रनीचैर्गोत्रयोरपि । अन्तराये पुनर्ययोत्कृष्टपदे तथैवावगन्तव्यं । इह यदा जन्तुरुत्कृष्टे योगस्थाने वर्तते, यदा च मूलप्रकृतीनामुत्तरप्रकृतीनां च स्तोकतराणां बन्धकः, तथा यदा संक्रमकाले प्रकृत्यन्तरद|लिकानामुत्कृष्टः प्रदेशसंक्रमो भवति, तदोत्कृष्टप्रदेशाग्रसंनवः । तथाहि-उत्कृष्ट योगे वर्तमानो जीव उत्कृष्टं प्रदेश
ग्रहणं करोति। तथा स्तोकतराणां मूलप्रकृतीनामुत्तरप्रकृतीनां च यदा बन्धकस्तदा शेषावध्यमानप्रकृतिलन्योऽपि नागस्तासां |वध्यमानानामानजति तथा प्रकृत्यन्तरदलिकानामुत्कृष्ट प्रदेशसंक्रमकाले विवक्षितासु प्रकृतिषुवध्यानासु प्रजूताःकर्मपुजलाः प्रविशन्ति । तत एतेषु कारणेषु सत्सूत्कृष्टप्रदेशाग्रसंनवो नवति । विपर्यासे तु जघन्यप्रदेशाग्रसंनवः॥ २० ॥
१ श्रीमन्यायाचार्यपादैरत्र साद्यादिप्ररूपणा स्वामित्वप्ररूपणा च कृता स्वविवरणे ।
Jain Educa
t ional
For Privale & Personal use only
III
Mainelibrary.org