________________
E
%
0-
कम
कृतिः
॥ १५॥
काश्रिता अवगन्तव्याः। तथा कार्मणशरीरप्रायोग्यवर्गणात आरन्यार्वाक् यावदौदारिकशरीरप्रायोग्या वर्गणास्तावत् |
गणास्तावत्प्र है क्षेत्रावगाहोऽसंख्येयगुणो अष्टव्यः, तद्यथा-कर्मवर्गणावगाहक्षेत्रान्मनोवर्गणावगाहक्षेत्र प्रदेशतोऽसंख्येयगुणं । ततोऽप्यानप्राणावगाहक्षेत्र प्रदेशतोऽसंख्ययगुणमित्यादि ॥ १०-१५-२० ॥
इह योगैस्तदनुरूपपुजलस्कन्धान गृहीत्वा शरीरादिरूपतया परिणमयतीत्युक्तं, तत्र तान् पुजलान् किं जीवो देशेन गृह्णाति उत सर्वात्मनेत्येवं प्रश्नावकाशमाशंक्योत्तरं वितितीषुराहएगमवि गहणदत्वं सवप्पणयाएँ जीवदेसम्मि । सवप्पणया सवत्थ वावि सवे गहणखंधे ॥१॥ __ एग त्ति-इह जीवः स्वप्रदेशावगाढमेव दलिकं गृह्णाति, न त्वनन्तरपरंपरप्रदेशावगाढं । तत्रैकस्मिन् जीवप्रदेशे यदवगाढं ग्रहणप्रव्यं ग्रहणप्रायोग्यं दलिकं तदेकमपि गृह्णाति । 'सबप्पणयाए त्ति' सर्वात्मना गृह्णाति सर्वैरेवात्मप्रदेशैगृह्णातीत्यर्थः । जीवप्रदेशानां सर्वेषामपि श्रृंखलावयवानामिव परस्परं संबन्धविशेषनावात् । तथाहि-एकस्मिन् जीवप्रदेशे स्वक्षेत्रावगाढग्रहणप्रायोग्य व्यग्रहणाय व्याप्रियमाणे सर्वेऽप्यात्मप्रदेशा अनन्तरपरंपरतया तद्रव्यग्रहणाय व्याप्रियन्ते । यथा हस्ताग्रेण कस्मिंश्चिद्वाह्ये घटादिके गृह्यमाणे मणिबन्धकूर्परांसादयोऽपि तद्हणायानन्तरपरंपरतया व्याप्रि| यन्ते, तथा 'सवत्थ वावि त्ति' सर्वत्रापि सर्वेष्वपि जीवप्रदेशेषु येऽवगाढा ग्रहणप्रायोग्याः स्कन्धाः, तानपि ग्रहणप्रायोग्यान् स्कन्धान् सर्वान् गृह्णाति जीवः सर्वात्मना सर्वैरेवात्मप्रदेशैः एकैकस्कन्धग्रहणं प्रति सर्वजीवप्रदेशानामनन्तरपरंपरतया व्याप्रियमाणत्वात् इति ॥१॥
॥१५॥
Jain Educat
onal
For Privale & Personal use only
brary