SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Jain Education नन्तगुण सिद्धानन्तनागकल्पपरमाणुसमुदायरूपा वर्गणा श्रदारिकशरीरनिष्पादनाय ग्रहणप्रायोग्या भवति । सा जघन्या । तत एकपरमाण्वधिकस्कन्धरूपा द्वितीया ग्रहणप्रायोग्या वर्गणा । दिपरमाण्वधिकस्कन्धरूपा तृतीया ग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावधाच्या यावघुत्कृष्टा श्रदारिकशरीरग्रहणप्रायोग्या वर्गणा जवति । जघन्यायाश्च वर्गणायाः सकाशात्कृष्टा वर्गणा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया | अनन्ततमो नागः । श्रदारिकशरीरग्रहणप्रायोग्योत्कृष्टवर्गणापेक्ष्या चैकपरमाण्वधिकस्कन्धरूपा वर्गणाऽग्रहणप्रायोग्या, सा जघन्या । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्ग| पास्तावषाच्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा जवति । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणा अनन्तगुणाः । गुणकारश्चाजव्यानन्तगुण सिद्धानन्तनागकपरा शिप्रमाणो प्रष्टव्यः । एतासां चाग्रहणप्रायोग्यता यदारिकं प्रति प्रभूतपरमाणु निष्पन्नत्वात् सूक्ष्मपरिमाणत्वाच्च वेदितव्या । वैक्रियं प्रति पुनः स्वल्पपुरमाण्वात्मकत्वात् स्थूलपरिमाणत्वाच्चावसेया । एवमुत्तरत्रापि जावना कार्या । श्रग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा वर्गणा वैकियशरीरप्रायोग्या जघन्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया वैक्रियशरीरस्य ग्रहणप्रायोग्या वर्गणा । | एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणा वैक्रियशरीरविषये ग्रहणप्रायोग्यास्तावत्कन्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा जवति । जघन्यायाश्चोत्कृष्टा विशेषाधिकाः । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो जागः । वैक्रियशरीरोत्कृष्टवर्गणापेक्ष्या चैकपरमाण्वधिकस्कन्धरूपा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा For Private & Personal Use Only alibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy