________________
Jain Education
संखति केचिदाचार्याः पञ्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थान मिष्ठन्ति । ते हि प्रथमतो दृष्टिमोहे दर्शनमोहनीयत्रित संक्षी क्षयमुपगते सति पश्चादनन्तानुबन्धिनां नाशमिच्छन्ति । ततस्तन्मतेन दर्शनमोहनी यत्रितयकये सति पञ्चविंशतिरूपमपि प्रकृतिसत्कर्मस्थानं प्राप्यते । यद्येवं तर्हि तन्मतमिह कस्मान्नान्युपगम्यते ? उच्यते — श्रर्षेण विरोधात् । यदाह चूर्णिकृत् - "तं श्रारिसे न मिलइ तेण न इबिक त्ति” । तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशमं चेच्छन्ति नान्ये परमार्थवेदिनः । श्रत एव च प्रागनन्तानुबन्धिनामुपशमनाऽस्मानिर्नोपदर्शिता ॥ १३ ॥ संप्रति नामकर्मणः प्रकृतिसत्कर्मस्थानानि प्रतिपिपादयिषुराह -
| तिडुगसयं उप्पंचगतिगनउई नजई गुणन जई य । चउतिगडुगाहिगासी नव अ य नामवाणाई ॥१४॥ asari ति - नामकर्मणो द्वादश प्रकृतिसत्कर्मस्थानानि, तद्यथा— त्र्युत्तरशतं व्युत्तरशतं पणवतिः पञ्चनवतिः त्रिनवतिः नवतिः एकोननवतिः चतुरशीतिः त्र्यशीतिः घ्यशीतिः, नव अष्टौ चेति । तत्र सर्वनामकर्मप्रकृतिसमुदायस्त्रयुत्तरशतं । तदेव तीर्थकररहितं व्युत्तरशतं । त्र्युत्तरशतमेवाहारकस तकरहितं पवतिः । सैव तीर्थकररहिता पञ्चनवतिः । पञ्चनवतिरेव देवधिकरहिता नरकविकरहिता वा त्रिनवतिः । तथा त्र्युत्तरशतमेव नामत्रयोदशकरहितं नवतिः । सैव तीर्थकररहिता एकोननवतिः । तथा त्रिनवतिर्नरकधिकवैक्रिय सप्तकर हिता देवधिकवैक्रिय सप्तकर हिता वा चतुरशीतिः । पावतिस्त्रयोदशरहिता त्र्यशीतिः । पञ्चनवतिस्त्रयोदशरहिता द्व्यशीतिः, अथवा चतुरशीतिर्मनुजधिकरहिता द्व्यशीतिः । मनुजगतिपञ्चेन्द्रियजातित्रसवादरपर्याप्त सुभगादेययशः कीर्तितीर्थकररूपा नव । ता एव तीर्थकररहिता अष्टौ ||१४||
ional
For Private & Personal Use Only
Celibrary.org