________________
Jain Education
तदेवमुक्त उदयः, संप्रति सत्तानिधानावसरः । तत्र चेमेऽर्थाधिकाराः । तद्यथा-नेदः साद्यनादिप्ररूपणा स्वामित्वं चेति । तत्र जेदनिरूपणार्थमाह
मूलुत्तरपगइयं च विदं संतकम्ममवि नेयं । धुवमद्भुवणाईयं अहं मूलपगईं ॥ १ ॥
मुलुत्तरत्ति - सत्कर्मदिधा - मूलप्रकृतिगतं उत्तरप्रकृतिगतं च । तत्र मूलप्रकृतिगतमष्टप्रकारं तद्यथा-ज्ञानावरणीयं दर्शनावरणीयमित्यादि । उत्तरप्रकृतिगतमष्टपञ्चाशदधिकशतप्रकारं, तद्यथा - मतिज्ञानावरणीयमित्यादि । पुनरेकैकं चतुर्विधं, तद्यथा - प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुभागसत्कर्म, प्रदेशसत्कर्म च । तदेवमुक्तो नेदः, संप्रति साद्यनादिप्ररूपणार्थमाह- 'धुवेत्यादि' अष्टानां मूलप्रकृतीनां सत्कर्म त्रिधा, तद्यथा - ध्रुवमध्रुवमनादि च । तत्रानादित्वं सदैव जावात् । ध्रुवा ध्रुवताऽजव्यजव्यापेक्षया ॥ १ ॥
संप्रत्युत्तरप्रकृतीनां साधनादिप्ररूपणार्थमाह
दिहिडुगाजगढग्गति तणुचोद्दसगं च तित्थगरमुच्चं । डुविहं पढमकसाया होंति चउद्धा तिहा सेसा ॥२॥
दिगिति - दृष्टिदिकं सम्यक्त्वसम्यङ् मिध्यात्वरूपं श्रायूंषि चत्वारि, 'बग्गइ त्ति' मनुष्यधिकं देवधिकं नरकदिकं च, तनुचतुर्दशकं वैक्रियसप्तकाहारकसप्तकरूपं, तथा तीर्थकरनामोच्चैर्गोत्रं च एतासामष्टाविंशतिप्रकृतीनां सत्कर्म द्विविधं दिप्रकारं, तद्यथा - सादि ध्रुवं च । साद्यध्रुवता चाध्रुवसत्कर्मत्वादवसेया। तथा प्रथमकषाया अनन्तानुबन्धिनः
ational
For Private & Personal Use Only
elibrary.org