________________
| सम्मत्तुप्पेत्यादि-इहैकादश गुणश्रेणयः । तद्यथा-सम्यक्त्वोत्पादे प्रथमा।हितीया श्रावके देशविरते । तृतीया प्रकृतिः
विरते सर्वविरते प्रमत्तेऽप्रमत्ते च । चतुर्थी संयोजनानामनन्तानुबन्धिनां विसंयोजने । पञ्चमी दर्शनमोहनीयत्रितयक्ष-12 ॥१०॥
पणे । षष्ठी चारित्रमोहनीयोपशमके । सप्तमी उपशान्तमोहनीये । अष्टमी मोहनीयपके । नवमी क्षीणमोहे । दशमी दासयोगिकेवलिनि । अयोगिकेवलिनि खेकादशीति । 'असंखगुणसेढी उदल त्ति' सर्वस्तोकं सम्यक्त्वोत्पादगुणश्रेण्यां|
दलिकं । ततोऽपि देशविरतिगुणश्रेण्यामसंख्येयगुणं । ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्येयगुणं । एवं तावाच्यं याव-18 दयोगिकेवलिगुणश्रेण्यां दलिकमसंख्येयगुणं । तस्मात् प्रदेशोदयमप्याश्रित्य एता गुणश्रेणयो यथाक्रममसंख्येयगुणा वक्तव्याः । 'तविवरी कालो संखिजगुणसे दित्ति' सर्वास्वप्येतासु गुणश्रेणिषु कालस्तविपरीत उदयविपरीतः संख्येयगुणश्रेण्या । तद्यथा-अयोगिकेवलिगुणश्रेणिकालः सर्वस्तोकः । सयोगिकेवलिगुणश्रेणिकालः संख्येयगुणः । ततोऽपि वीणमोहगुणश्रेणिकालः संख्येयगुणः। एवं तावकाच्यं यावत्सम्यक्त्वोत्पादगुणश्रेणिकालः संख्येयगुणः । स्थापना । एषा सम्यक्त्वोत्पादगुणश्रेणिः । पुनर्ययोत्तरमसंख्येयगुणदलिकाः। कालतश्च संख्येयगुणाः। नपरिष्टाच्च पृथक्त्वेन यथोत्तरं विशाला विशालतराः। अथोच्येत-कथं दलिकं यथोत्तरमसंख्येयगुणं प्राप्यते ? उच्यते-सम्यक्त्वं ह्युत्पादयन् मिथ्या-| दृष्टिनवति, ततस्तस्य स्तोकं गुणश्रेणिदलिकं । सम्यक्त्वोत्पत्तौ सत्यां पुनः प्राक्तनगुणश्रेण्यपेक्ष्याऽसंख्येयगुणदलिका
॥१०॥ गुणश्रेणिः, विशुद्धत्वात् । ततो देशविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, सम्यग्दृष्ट्यपेक्ष्या देशविरतस्यातिविशुधत्वात् । ततोऽपि सर्वविरतस्य गुणश्रेणिरसंख्येयगुणदखिका, देशविरतात्सर्वविरतस्य विशुद्धतरत्वात् । ततोऽपि संयत-17
C CCC
Jain Ede
For Privale & Personal use only
o
nelibrary.org