________________
|मुत्पादयतः कृतान्तरकरणस्योपशमिकसम्यक्त्वात्प्रच्युत्य मिथ्यात्वं गतस्यान्तरकरणपर्यन्तजा विगोपुच्छाकारसंस्थितावलिकामात्र दलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः । स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । सोऽपि द्वितीयसमये जवन् सादिः । वेदकसम्यक्त्वाघा प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाभ्रुवौ पूर्ववत् । तथा कश्चिद्गुतिकर्मशो यदा देशविरतिगुणश्रेण्यां वर्तमानः सर्वविरतिं प्रतिपद्यते । ततस्तन्निमित्तां गुणश्रेणिं करोति । कृत्वा च तावद्गतो यावत् द्वयोरपि गुणश्रेयोर्मस्तके । तदानीं च कश्चिन्मिथ्यात्वं गछति । ततस्तस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयः स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । सोऽपि ततो द्वितीयसमये जवन् सादिः । वेदकसम्यक्त्वाच्या प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाभ्रुवौ पूर्ववत् । एतासां च सप्तचत्वारिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पौ जघन्योत्कृष्टरूपौ द्विधा विप्रकारौ । तद्यथा-सादी अध्रुवौ च । तौ च जावितावेव । शेषाणामधुवोद्यानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा जघन्याजधन्योत्कृष्टानुत्कृष्टरूपा द्विधा ज्ञातव्याः, तद्यथा-सादयोऽध्रुवाश्च । सा च साद्यध्रुवताऽध्रुवोदयत्वादवसेया ॥ ७ ॥
कृता साधनादिप्ररूपणा । संप्रति स्वामित्वमनिधानीयं । तच्च विधा- उत्कृष्टप्रदेशोदयस्वामित्वं जघन्य प्रदेशोदयस्वामित्वं च । तत्रोत्कृष्टप्रदेशोदय स्वामित्वप्रतिपादनार्थं संजवन्ती गुणश्रेणी: सर्वापि प्ररूपयतिसम्मत्तप्पासावयविरए संजोयणा विषासे य । दंसणमोहरकवगे कसाय जवसामगुवसंते ॥ ८ ॥ | खवगे य खीणमोहे जिणेय डुविहे असंखगुण से ढी । उदर्ज त विवरी कालो संखेकगुणसेढी ॥ ए ॥
Jain Education national
For Private & Personal Use Only
inelibrary.org