SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥१७॥ संख्येयत्नागहीनो नवति, शेषाणां च संख्येयगुणहीनः। शेष स्थितिघातादि तथैव । संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां अप्रत्याख्यानप्रत्याख्यानावरणक्रोधदलिकं न संज्वलनक्रोधे प्रदिपति, किंतु संज्वलनमानादौ । व्यावलिकाशेषायां त्वागालो न लवति, किंतूदीरणैव । साप्युदीरणा तावत्प्रवर्तते यावदावलिका शेषा नवति । उदीरणावलिकायाश्च चरमसमये संज्वलनानां स्थितिबन्धश्चत्वारो मासाः। शेषकर्मणां तु संख्येयानि वर्षसहस्राणि । संज्वलनक्रोधस्य च बन्धोदयोदीरणाव्यवच्छेदः । अप्रत्याख्यानप्रत्याख्यानावरणौ च क्रोधावुपशान्तौ । तदानीमेकामावलिका समयोनावलिकाधिकबछ च दलिक मुक्त्वा शेषमन्यत्सर्व संज्वलनक्रोधस्योपशान्तं, सापि चैका प्रथम स्थितिसत्का चरमावलिका स्तिबुकसंक्रमेण माने प्रक्षिप्यते । समयोनावलिकाधिकबधं च दलिकं पुरुषवेदोक्तप्रकारेणोपशमयति संक्रमयति |च । अनेनैव क्रमेण शेषानपि कषायान् त्रिविधान् त्रिप्रकारान् मानमायालोनरूपान् । पुनः कमंजूतानित्याह-त्रिवि धान् प्रत्येकं त्रिप्रकारान् । तथाहि-अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलननेदात् त्रिविधो मानः । एवं मायालोला|वपि, तान् उपशमयति । तत्र संज्वलनोपशमना पुरुषवेदसमाऽवसेया । अप्रत्याख्यानप्रत्याख्यानावरणमानादीनां चोप शमना षडूनोकषायसमा । नवरं 'पढमविई थालिगा अहिग त्ति' संज्वलनानां प्रथम स्थितौ पुरुषवेदापेक्ष्या एका आवलिकाधिका । तथाहि-पट्सु नोकषायेषूपशान्तेषु पुरुषवेदस्य प्रश्रमा स्थितिरेका समयमात्रा स्थितिरनुपशान्ता आसीत्। अप्रत्याख्यानप्रत्याख्यानावरणमानादिषु पुनरुपशान्तेषु संज्वलनमानादीनामनुपशान्ता प्रश्रमस्थितेरेकावलिकेति । इदं| चातिसंक्षिप्तमुक्तमिति विशेषतो नाव्यते यदा संज्वलनक्रोधस्य बन्धोदयोदीरणा व्यवचिन्नाः। तदैव संज्वलनमानस्य ॥१७॥ Sain Educat For Privale & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy